SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ |बन्धसहस्रेषु गतेषु सत्सु चकुर्दर्शनावरणीयस्यानुल्लागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु मतेमतिज्ञानावरणीयस्य सपरिजोगान्तरायस्यानुन्नागं देशघातिनं बध्नाति । ततः पुनरपि स्थितिबन्धसहस्रेषु गतेषु सत्सु वीर्यान्तरायानुलागं देशघातिनं बध्नाति । 'असे ढिगया' इत्यादि अश्रेणिगताः पकश्रेणिरहिता उपशमश्रेणिरहिता वा बन्धकाः पूर्वोक्तान्यपि कर्माणि सर्वघातीनि बध्नन्ति, पूर्वोक्तप्रकृतीनामनुलागं सर्वघातिनं बघ्नन्तीत्यर्थः॥४०-४१॥ संजमघाईणंतरमेब उ पढमहिश य अन्नयरो । संजलणावेयाणं वेश्जतीण कालसमा ॥४॥ संजमघाईणं ति-वीर्यान्तरायदेशघात्यनुनागवन्धानन्तरं संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु संयमघातिनां कर्मणामनन्तानुवन्धिवर्जानां घादशानां कषायाणां नवानां च नोकषायाणां सर्वसंख्यया एकविंशतिप्रकृतीनामन्तरकरणं करोति । तत्र च चतुर्णा संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेदस्य वेद्यमानस्य प्रश्रमा स्थितिः स्वोदयकालप्रमाणा । अन्येषां चैकादशकषायाणां अष्टानां च नोकषायाणां प्रथमस्थितिरावलिकामात्रा । स्वोदयकालप्रमाणं च चतुर्णा संज्वलनानां त्रयाणां च वेदानामिदं-स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुभ्यः। ततः पुरुषवेदस्य संख्येयगुणः । ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः । ततोऽपि संज्वलनमानस्य विशेषाधिकः । ततोऽपि संज्वलनमायाया विशेषाधिकः। ततोऽपि संज्वलनलोनस्य विशेषाधिकः । उक्तं च"श्रीअपुमोदयकाला संखेजगुणा उ पुरिसवेदस्स । तस्स वि विसेसअहिले कोहे तत्तो वि जहकमसो॥१॥” तत्र |संज्वलनक्रोधनोपशमणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो न भवति, तावत्संज्वलनक्रोधस्यो-18 क०प्र०३० Jain Education For Privale & Personal use only nelibrary.org JNilonal
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy