________________
AGRAA
च' तृतीयं वेदनाय स्वस्थाने तू परस्परं तुस्यः तासल्ययगुणः, स्वस्थाने तु परस्पर
HARMACROREX
हुत्वमुच्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म । ततो मोहनीयस्यासंख्येयगुणं । ततोऽपि ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुट्यं । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु 'वीसग हेश य' मोहनीयस्य स्थितिबन्ध एक| हेलयैव विंशतिकयोविंशतिसागरोपमकोटीकोटीस्थितिकयो मगोत्रयोरधस्तादसंख्येयगुणहीनो जातः । अत्र स्थितिषन्धमाश्रित्याल्पबहुत्वं चिन्त्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः । ततो ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणः, स्वस्थाने तु परस्परं तुभ्यः। ततः कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तीसगाणुप्पि तश्यं च तृतीयं वेदनीय स्थितिसत्कर्माधिकृत्य त्रिंशत्सागरोपमकोटीकोटिस्थितिकानां ज्ञानावरणदर्शनावरणान्तरायाणामुपरि जातं । एतमुक्कं जवति-मोहनीयनामगोत्राणि स्थितिसत्कर्माधिकृत्य प्राक् त्रिंशत्कानामधस्ताजातानि, संप्रति पुनस्त्रिंशत्कानामपि मध्ये ज्ञानावरणदर्शनावरणान्तरायाणि वेदनीयस्याधस्ताजातानि । वेदनीयं तु सर्वोपरि जातं । तदनन्तरं च तस्य वेदनीयस्यान्यः स्थितिबन्धः सर्वेन्योऽप्यसंख्ययगुणो जायते । स्थितिबन्धमेवाश्रित्याइपबहुत्वमुच्यते--सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुझ्यः । ततोऽपि ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुझ्यः, ततोऽपि वेदनीयस्यासंख्येयगुणः। ततोऽनेनैव विधिना स्थितिबन्धसहस्रेषु गतेषु सत्सु ॥ ततस्त्रिंशत्कानां त्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावरणदर्शनावरणान्तरायाणां स्थितिबन्धमधिकृत्योपरिविंशतिके नामगोत्रे जाते । अत्रास्पबदुत्वं-सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुझ्यः ।।
RA
Jain Educatia
hational
For Privale & Personal use only
ainelibrary.org