SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कर्म॥ १७३ ॥ 'मोहस्स जाव पलं संखितनागह त्ति' यावन्मोहस्य मोहनीयस्य पस्योपममात्रः स्थितिबन्धो न जवति, तावत्प्राक्तनः सर्वोऽपि मोहनीयस्य स्थितिबन्धः पस्योपमसंख्येयतमेन नागेन हीनो हीनतरो वेदितव्यः । पस्योपममात्रे स्थितिबन्धे सत्यन्यं स्थितिबन्धं संख्येयगुणहीनं करोति । एतच्च प्रागेवोक्तं । श्रस्माच्च संख्येयगुणहीनात् मोहनीयस्य स्थितिबन्धात् प्रभूतेषु स्थितिबन्धेषु गतेषु सत्सु मोहनीयस्यापि स्थितिबन्धः पस्योपमस्य संख्येयनागमात्रो भवति । तदानीं च यद्भवति तदाह-'श्रमोहा तो नवरमसंखितगुण त्ति' 'श्रमोह त्ति' मोहनी यवर्जयोर्नामगोत्रयोर्ग्रहणं । सर्वेषां कर्मणां पस्योपमसंख्येयनागमात्रे स्थितिबन्धे सति श्रमोदयोर्नामगोत्रयोरसंख्येय गुणहीनमन्यं स्थितिबन्धमारजते । शेषाणां तु संख्येयगुणहीनं । चत्र स्थितिसत्कर्मापेक्षयाऽपबहुत्वं चिन्त्यते - सर्वस्तोकं नामगोत्रयोः सत्कर्म । ततो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामसंख्येयगुणं, स्वस्थाने तु परस्परं तुझ्यं । ततोऽपि मोहनीयस्य संख्येयगुणं । ततः स्थितिघातसहस्रेषु गतेषु सत्सु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धोऽसंख्येयगुणहीनो जवति । तदानीं च स्थितिसत्कर्मापेक्षयाऽस्पबहुत्वं चिन्त्यते - सर्वस्तोकं नामगोत्रयोः सत्कर्म । ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यं । ततो मोहनीयस्यासंख्येयगुणं । ततः स्थितिघातसहस्रेषु गतेषु सत्सु 'एक्कपहारेण तीसगाणमहो मोहे त्ति' एकप्रहारेणैकदेखयैव त्रिंशत्कानां त्रिंशत्सागरोपमकोटी कोटी स्थितिकानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामधस्तात् मोहनीयस्य स्थितिरसंख्येयगुणहीना जवति । नैवात्रान्यो विकल्पः कश्चित्करणीयः । इयमत्र जावना - पूर्व मोहनीयस्य सत्कर्म ज्ञानावरणीयादीनामुपरिष्टादसंख्येयगुणमासीत्, संप्रति पुनरेकहेलयैव तेषामधस्तादसंख्येयगुणहीनं जातमिति । अत्रास्पब Jain Educationational For Private & Personal Use Only प्रकृतिः ॥ १७३ ॥ nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy