________________
करणस्य प्रथमसमयेऽनन्तानुवन्धिनां दलिकं शेषकषायरूपपरप्रकृतौ स्तोकं संक्रमयति । ततो दितीयसमयेऽसंख्येयगुणं । ततोऽपितृतीयसमयेऽसंख्येयगुणमित्येवं वक्तव्यं । एष गुणसंक्रमः।अनिवृत्तिकरणे च प्रविष्टः सन् प्रागुक्तस्वरूपेणोलनासंक्रमेण निरवशेषान् विनाशयति । किंत्वधस्तादावलिकामात्रं मुञ्चति । तदपि च स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु
संक्रमयति । ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघातरसघातगुणश्रेणयो न लवन्ति, किंतु ४ स्वनावस्थ एव जवति ॥ ३१॥
तदेवमुक्ताऽनन्तानुबन्धिनां विसंयोजना । ये त्वाचार्या अनन्तानुबन्धिनामप्युपशमनां मन्यन्ते तन्मतेनोपशमनाविधिः षडशीतिवृत्तेरवसेयः। संप्रति दर्शनमोहनीयक्षपणाविधिमाहदसणमोहे वि तहा कयकरणकाएँ पलिमे होश । जिणकालगो मणुस्सो पध्वगो श्रध्वासुप्पिं ॥३॥
दसणमोहे वित्ति-इह दर्शनमोहनीयक्षपणायाः प्रस्थापक आरंजको मनुष्यो जिनकालको जिनकाससंनवी। जिनकालश्च पनजिनविचरणकालप्रवृतिको जंबूस्वामिकेवलोत्पत्तिलालपर्यवसानो वेदितव्यः। तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षजनाराचसंहननश्च भवति । दर्शनमोहेऽपि च रुपणा तथैव वक्तव्या, यथा प्रागनन्तानुबन्धिनामुक्ता । तत्र यद्यप्येवं सामान्येनोक्तं तथापि किञ्चिविशेषतोऽभिधीयते-इह दर्शनमोहनीयक्षपणार्थमन्युद्यतस्त्रीणि करणान्यारजते । तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । एतानि च त्रीस्यपि करणानि प्रागिव वक्तव्यानि । नवरमपूर्वकरपस्य प्रथमसमये एवानुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिक गुणसंक्रमण सम्यक्त्वे प्रदिपति । उछलनासंक्रममपि
KRICAKAC-AAAAACH
Jain Education
Lional
For Privale & Personal use only
M
inelibrary.org