SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ लोकासंख्येयजागवल्संख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते, तेषां समुदायो दितीया वर्गणा । ततः परं धान्यां वीर्याविनागाल्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा । ततोऽपि त्रिनिर्याविनागैरधिकानां तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गणा । एवमेकैकवीर्याविनागवृद्ध्या वर्धमानानां तावतां तावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्याः इति ॥७॥ ताश्च कियत्य इति तन्निरूपणार्थ स्पर्धकप्ररूपणामाह-- से ढिशसंखियमित्ता, फड्डगमेत्तो श्रणंतरा नस्थि। जाव असंखा लोगा, तो बीयाई य पुवसमा सेढीति-इह घनीकृतस्य लोकस्य या एकैकप्रदेशपंक्तिरूपा श्रेणिस्तस्याः श्रेणेरसंख्येयतमे जागे यावन्त श्राकाशप्र. देशास्तावन्मात्रास्तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिता एकं स्पर्धक, स्पर्धन्त इवोत्तरोत्तरवृस्या वर्गणा अत्रेति स्पर्धक । कृद्बहुलमिति (श्रीम. कृ. १-११) वचनादधिकरणे वुञ् । उक्ता स्पर्धकप्ररूपणा, सांप्रतमन्तरप्ररूपणामाहएत्तो अणंतरा नस्थि' इतः पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति । किमुक्तं लवति? इत ऊर्ध्वमेकैकवीर्याविजागवृध्या निरन्तरं वर्धमाना जीवप्रदेशा न लन्यन्ते, किं तु सान्तरा एव । तथाहि-पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकेन वीर्याविनागेनाधिकाः प्राप्यन्ते, नापि धाभ्यां, नापि त्रिनिः, नापि चतुर्जिः, यावन्नापि संख्येयैः, किं त्वसंख्येयेरेवासंख्येयलोकाकाशप्रदेशप्रमाणैरन्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायो वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । 'तो बीयाई य पुवसम त्ति' ततो पितीयस्पर्धकप्रथमवर्गणातः परतो दितीयादयो। Jain Educat i onal For Privale & Personal use only K inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy