________________
Jain Education
द्योत वर्जानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्तु प्रतिपक्षाभावात् अन्यत्र जघन्यतरा स्थितिर्न प्राप्यते ।। तत एकेन्द्रिय एव यथोक्तस्वरूप आसां प्रकृतीनां जघन्य स्थित्युदीरणास्वामी ॥ ३४-३५ ॥
एगिं दियजोग्गाणं इयरा बंधिन्तु श्रलिगं गंतुं । एगिं दियागए तईिए जाई मवि एवं ॥ ३६ ॥
दिति - एकेन्द्रियाणामेवोदीरणां प्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्या एकेन्द्रियजातिस्थावरसूक्ष्मसाधारणनामानस्तासामेकेन्द्रियो जघन्य स्थितिसत्कर्मा । इतरा एकेन्द्रियजात्यादिप्रतिपक्षजूता दीन्द्रियजात्यादिकाः प्रकृतीर्वा । तद्यथा - एकेन्द्रियजातेन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीः, स्थावरसूक्ष्मसाधारणानां त्रसबादरप्रत्येकनामानि, तत एकेन्द्रियजात्यादीनाति । ततो बन्धावलिकां गत्वाऽतिक्रम्य बन्धावलिकायाश्वरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इयमत्र जावना - एकेन्द्रियः सर्वजघन्य स्थितिसत्कर्मा दीन्द्रियादिजातीः सर्वा छापि परिपाठ्या बध्नाति । ततस्तद्वन्धानन्तरमेकेन्द्रियजातिं बद्धुमारजते । ततो नन्धावलिकायाश्चरमसमये पूर्वबन्धायास्तस्या एकेन्द्रियजातेर्जघन्यां स्थित्युदीरणां करोति । इह बन्धावलिकाया अनन्तरसमये बन्धावलिकाप्रथमसमयबद्धा अपि स (न) ता उदीरणामायान्ति, ततो जघन्या स्थित्युदीरणा न प्राप्यते इति कृत्वा बन्धावलिकायाश्चरमसमये इत्युक्तं । यावता काखेन प्रतिपक्षभूताः प्रकृतीर्वभाति तावता कालेन न्यूना एकेन्द्रियजातेः स्थितिर्भवति, ततः स्तोकतरा प्राप्यते इति प्रतिपनूतप्रकृतिबन्धोपादानं । एवं स्थावरसूक्ष्मसाधारणानामपि जावना कर्तव्या । केवलमेतेषां प्रतिपक्षभूताः प्रकृतयः सवादरप्रत्येकनामानो वेदितव्याः । ' एगिंदियेत्यादि ' जातीनामपि धीन्द्रियादिजातीनामपि एवं पूर्वोक्तेन प्रकारेण
For Private & Personal Use Only
elibrary.org