________________
कर्म
॥ १२३ ॥
सयोगिकेव लिपर्यवसानाः सर्वेऽप्युदीरकाः । इतिशब्दो निक्रमो गाथापर्यन्ते योजनीयः । स च मूलप्रकृत्युदीरणापरि- प्रकृतिः समाप्तिद्योतको वेदितव्यः ॥ ४ ॥
तदेवं मूलप्रकृत्युदीरणास्वाम्युक्तः । सांप्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह -
विग्घावरणधुवाणं जमवा जोगिणो उ धुवगाणं । उवघायस्स तपुछा तणु किट्टी तगरागा ॥ ५ ॥
विग्धति - विग्घति अन्तरायं, ततोऽन्तरायपञ्चकज्ञानावर एपञ्चकदर्शनावरणचतुष्टय रूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सर्वे बद्मस्था उदीरकाः । तथा 'धुवगाणं ति' नामध्रुवोदयानां त्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरा स्थिरशुनाशुनागुरुलघु निर्माणरूपाणां योगिनः सयोगिकेवलिपर्यन्ता उदीरकाः । उपघातनाम्नस्तु तनुस्थाः शरीरस्थाः शरीरपर्यात्या पर्याप्ता उदीरकाः । तनुकिट्टीनां सूक्ष्म किट्टीनां अर्थात् लोजसत्कानां तनुकरागाः सूक्ष्मसंपराया यावच्चरमावलिका न जवति तावदीरकाः ॥ ५ ॥
तसबायरपतत्तग सेयर गइजाइदिद्विवेयाणं । श्रऊप य तन्नामा पत्ते गियरस्स उ तणुच्छा ॥ ६ ॥ तस - सादरपर्याप्तानां सेतराणां सप्रतिपक्षाणां स्थावरसूक्ष्मापर्याप्तसहितानामित्यर्थः । तथा चतसृणां गतीनां, पञ्चानां च जातीनां तिसृणां दृष्टीनां दर्शनानां मिथ्यादर्शनादीनां त्रयाणां च वेदानां नपुंसकवेदादीनां चतुर्णां चायुषां सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं तन्नामानस्तत्तत्प्रकृतिनामान उदीरकाः । तद्यथा - त्रसनाम्नस्वसाः, ते च शरी
Jain Education national
For Private & Personal Use Only
॥ १२३ ॥
ainelibrary.org