________________
कर्म
॥ १२२ ॥
Jain Education
मूलपति - मूलप्रकृतिषु मध्ये पञ्चाना मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा त्रिप्रकारा । तद्यथा श्रनादिर्धुवाऽध्रुवा च । तथा हि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत् क्षीणमोहगुणस्थानकस्य समयावलि काशेषो न जवति तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनी । नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । तत एषामनादिरुदीरणा, ध्रुवाऽनव्यानां, अध्रुवा जन्यानां । तथा घयोर्वेदनीयमोहनी ययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्ध्रुवाऽध्रुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूका संपरायगुणस्थानकं यावत् न परतः । ततोऽप्रमत्तादिगुणस्थानकेन्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाभ्रुवे पूर्ववत् । श्रायुषः पुनरुदीरणा सादिरध्रुवा च । तथाहिआयुषः पर्यन्तावलिकायां नियमानुदीरणा न भवति ततोऽध्रुवा । पुनरपि परजवोत्पत्तिप्रथमसमये प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साद्यनादिप्ररूपणा । संप्रत्युत्तरप्रकृतिषु तां चिकीर्षुराह - 'दसुत्तरसउत्तरासिं पि' सादि रवा चेत्यनुवर्तते । उत्तरासामपि उत्तरप्रकृतीनामपि दशोत्तरशतसंख्यानां पञ्चविधज्ञानावरणदर्शनावरणचतुष्टयमिध्यात्वतैजस सप्तकवर्णादिविंशतिस्थिरा स्थिरशुनाशुनगुरुलघु निर्माणान्तरायपंचकरूपाष्टाचत्वारिंशदर्जानां सर्वशेषप्रकृतीनामित्यर्थः । उदीरणा दिधा तद्यथा-सादिरध्रुवा च । सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥ २ ॥ मिठत्तस्स चढद्धा तिहाय श्रावरण विग्धचउदसगे। थिरसुन सेयर उवघायवऊ धुवबंधिनामे य ॥ ३ ॥ मित्सति - मिथ्यात्वस्योदीरणा चतुर्धा, तद्यथा - सादिरनादिर्ध्रुवाऽध्रुवा च । तत्र सम्यक्त्वं प्रतिपद्यमानस्योदीरणा
tional
For Private & Personal Use Only
प्रकृतिः
॥ १२२ ॥
library.org