________________
कर्म
॥ २ ॥
Jain Education
योग्यत्वेन व्यवस्थापनं निधत्तिः 9 । समस्तकरणायोग्यत्वेन व्यवस्थापनं निकाचना छ । उक्तस्वरूपबन्धादिनिबन्धननूताश्च जीववीर्यविशेषा बन्धनादीनीत्युच्यन्ते, तथाव्युत्पत्तिभावात् । तथाहि - बध्यतेऽष्टप्रकारं कर्म येन तद्बन्धनं १ । | संक्रम्यतेऽन्यप्रकृत्यादिरूपतया व्यवस्थाप्यते येन तत्संक्रमणं २ । उद्दर्त्यते प्राबल्येन प्रभूतीक्रियते स्थित्यादि यया जीववीर्यविशेषपरिणत्या सोघर्तना ३ | अपवर्त्यते ह्रस्वीक्रियते स्थित्यादि यया साऽपवर्तना । अनुदयप्राप्तं (उदयाप्राप्तं ) सत्कर्मद लिकमुदीर्यत उदयावलिकायां प्रवेश्यते यया सोदीरणा ५ । उपशम्यते उदयोदीरणानिधत्तिनिकाचना करणायोग्यत्वेन व्यवस्थाप्यते कर्म यया सोपशमना ६ । निधीयत उघर्तनापवर्तनावर्जकरणायोग्यत्वेन व्यवस्थाप्यते यया सा निघत्तिः ७ । पृषोदरादित्वाब्दरूप निष्पत्तिः । तथा कच बन्धने, नितरां कच्यते स्वयमेव बन्धमायाति कर्म जीवस्य तथाविधसंक्लिष्टाध्यवसायपरिणतस्य तत्प्रयुंक्ते जीव एव तथानुकूष्येन जवनात्, ततः प्रयोक्तृव्यापारे शिजू (श्रीमं. श्रा६-५) ततो निकाच्यतेऽवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना । अथवा कच बन्धने इति चौरादिकोऽप्यस्ति, ततो निकाच्यतेऽवश्यवेद्यतया निबध्यते यया कर्म सा निकाचना जीववीर्यविशेषपरिणतिः । चः समुच्चये । इतिः परिसमाप्तौ, एतावन्त्येव करणानि, नाधिकानि । इति ॥ २ ॥
१ श्रीमत्प्रणीतं रुचिरतरमस्त्येव शब्दानुशासनं सवृत्तिकं, तत्र नामाख्यातकृदाख्यं यथार्थाख्यं प्रकरणत्रयं क्रमेण नवदशषट्पादप्रमाणं, ततश्चात्र श्रीमलयगिरिपूज्यपादकृतिप्रकरणपादसूत्रसङ्ख्यासूचनं क्रमेणावसेयमध्यवसितवाङ्मय सारैः 1
tional
For Private & Personal Use Only
प्रकृतिः
॥ २ ॥
enelibrary.org