________________
Jain Education
तथाहि - बन्धावलिकान्तर्गतं सकलकरणायोग्यमिति कृत्वा बन्धावलिकान्तर्गताः स्थितयो नोघर्तनायोग्याः । तथाऽबाधान्तर्गता श्रपि नोघर्तनायोग्याः, तासामतीठापनात्वेन प्राक् प्रतिपादितत्वात् । असंख्येयजागाधिकावलिकामात्रनाविन्यश्चोपरितन्यः स्थितयः प्रागुक्तयुक्तेरेव नोघर्तनायोग्याः । इदानीं निक्षेप श्चिन्त्यते । तत्र यदावलिकामावलि - काया असंख्येयजागं चोपरिष्टादधोऽवतीर्य द्वितीयाऽधस्तनी स्थितिरुवर्त्यते, तदा समयाधिक श्रावलिकाया संख्येयजागो निक्षेपविषयः । यदा तु तृतीया स्थितिरुवर्त्यते तदा दिसमयाधिकः । एवं समयवृद्ध्या तावद्दलिक निक्षेपो वर्धते यावत्कृष्टो भवति । स च कियान् जवतीति चेदुच्यते - 'समयेत्यादि ' समयाधिकावलिकयाऽबाधया च दीना सर्वा कर्मस्थितिः । तथाहि — श्रवाधोपरिस्थस्थितीनामुघर्तना जवति । तत्राप्यबाधाया उपरितने स्थितिस्थाने उर्त्य - मानेऽबाधाया उपरि दलिक निक्षेपो जवति, नावाधाया मध्येऽपि, उघर्त्यमानद लिकस्योघर्त्यमान स्थितेरूर्ध्वमेव निक्षेपात् । तत्राप्युर्त्यमान स्थितेरुपरि यावलिकामात्राः स्थितीरतिक्रम्योपरितनीषु स्थितिषु सर्वासु दलिकनिदेपो जवति । श्रतोऽतीवापनावलिकामुर्त्यमानां च समयमात्रां स्थितिमबाधां च वर्जयित्वा शेषा सर्वापि कर्मस्थितिरुत्कृष्टो दलिकनिक्षेपविषयः । उक्तं च पञ्चसंग्रहमूलटीकायां समयोत्तरावलिकया साबाधया हीना यावदुत्कृष्टा कर्मस्थितिस्तावद्द लिकनिक्षेपो जवति । यतोऽबाधोपरिस्थस्थितीनामुपर्तना जवति सापि श्रतीवापनामुध्योद्दर्त्यमानायामपि स्थितौ न दलिक निक्षेपो जवति । अतः समयाधिकावलिकाबाधावर्जितासु शेषासु सर्वासु स्थितिषु दलिक निक्षेपो जवतीति । तदेवमबाधाया उपरितनं समयमात्र मुर्त्यमानं स्थितिस्थानमधिकृत्योत्कृष्टो दलिक निक्षेपविषयः प्राप्यते । सर्वोपरितनं 'तु
For Private & Personal Use Only
helibrary.org