SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ कर्म पकनिक RRARA सागरोपमाणां यावत्सम्यक्त्वमनुपाख्य मिथ्यात्वं गतस्येत्यर्थः। पट्योपमासंख्येयजागमात्रेण कालेन ते सम्यक्त्वसम्य- मिथ्यात्वे उघलयतः स्तोके उघलनसंक्रमे तयोर्जघन्यः प्रदेशसंक्रमो विचरमखंडस्य चरमसमये सम्यक्त्वसम्यग्मिथ्यात्वयोर्यद्दलिकं परस्थाने मिथ्यात्वप्रकृतिरूपे प्रतिप्यते स तयोर्जघन्यः प्रदेशसंक्रम इत्यर्थः॥१०॥ संजोयणाण चतुरुवसमित्तु संजोजश्त्तु अप्प । अयरछावहिदुगं पालिय सकहप्पवत्तंते ॥११॥ ___ संजोयणाण त्ति-चतुरो वारान् मोहनीयमुपशमय्य, चतुष्कृत्वो मोहनीयोपशमनेन किं प्रयोजनमिति चेकुच्यते-प्रजूतपुजलपरिसाटः । तथाहि-चारित्रमोहनीयप्रकृतीनामुपशमं कुर्वन् स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रजूतान् पुजलान् परिसाटयतीति । ततश्चतुष्कृत्वो मोहनीयोपशमं कृत्वा मिथ्यात्वं गति । मिथ्यात्वं गतश्च सन् अपानां अपं कालं यावत् संयोजनान् संयोज्यानन्तानुबन्धिनो बवा, तदानीं च चारित्रमोहनीयदलिकं स्वपमेव विद्यते, चतुष्कृत्वो मोहोपशमकाले तस्य स्थितिघातादिनिर्घातितत्वात् । ततोऽनन्तानुबन्धिनो बनन् तेषु यथाप्रवृत्तसंक्रमण स्तोकमेव चारित्रमोहनीयदखिक संक्रमयति । ततोऽन्तर्मुहूर्ते गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते । तच्च षषष्टी सागरोपमाणां यावदनुपाट्यानन्तानुबन्धिनां पणाय समुद्यतते । तस्य स्वकयथाप्रवृत्तकरणान्तसमये तेषामनन्तानुब|न्धिनां विध्यातसंक्रमण जघन्यः प्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमः प्रवर्तते इति स न प्राप्यते ॥११॥ श्रहकसायासाए य असुनधुवबंधि अचिरतिगे य।सबलहुँखवणाए अहापवत्तस्स चरिमम्मि ॥१॥ अत्ति-अप्रत्याख्यानप्रत्याख्यानावरणरूपा अष्टौ कषायाः, असातवेदनीय, अशुनधुवबन्धिन्यः कुवर्णादिनवकोप ॥११ ॥ JainEducation International For Private & Personal use only www. libraryong
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy