________________
थावर त्ति-स्थावरनाम तथा तजातिः स्थावरजातिः एकेन्यिजातिरित्यर्थः। तया श्रातपनाम, उद्योतनाम । एताश्चतस्रः प्रकृतयो नपुंसकसमा, नपुंसकवेदस्येव आसामपि प्रकृतीनामुत्कृष्टः प्रदेशसंक्रमो जावनीय इत्यर्थः । तथा आहारकसप्तकं तीर्थकरनाम च स्थिरसमं वक्तव्यं । केवलं तऽत्कृष्टस्वकबन्धकालं यावदापूरणीयमनिधातव्यं । श्यमत्र नावना-श्राहारकसप्तकं तीर्थकरनाम चोत्कृष्टं स्वधन्धकालं यावदापूर्य तत्राहारकसप्तकस्य स्वबन्धकाल उत्कृष्टो देशोना पूर्वकोटी यावत्संयममनुपालयतो यावानप्रमत्तताकालस्तावान् सर्वो वेदितव्यः । तीर्थकरनाम्नश्च स्वबन्धकाल उत्कृष्टो देशोनपूर्वकोटीध्यान्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि । तत एतावन्तं कालं यावदापूर्य रुपकश्रेणिं प्रतिपन्नो ४ यदा बन्धव्यवच्छेदादनन्तरमावलिकामानं कालमतिक्रम्य यशःकीतौं संक्रमयति, तदा तयोरुत्कृष्टः प्रदेशसंक्रमः ॥ ए॥ | चउरुवसमित्तु मोहं मित्तगयस्स नीयबंधंतो । उच्चागोउकोसो तत्तो सहुसिन हो॥ ए३ ॥
चन त्ति-इह मोहोपशमं कुर्वन् उच्चैर्गोत्रमेव बध्नाति, न नीचैर्गोत्रं । नीचैर्गोत्रसत्कानि च दलिकानि गुणसंक्रमणोहै चैर्गोत्रे संक्रमयति । ततश्चतुष्कृत्वो मोहोपशमग्रहणमवश्यं कर्तव्यं । तत्र चतुरो वारान् मोहनीयमुपशमयन् उच्चैर्गोत्रं
च बनन् तत्र नीचैर्गोत्रं गुणसंक्रमेण संक्रमयति । चतुष्कृत्वश्च मोहोपशमः किल जवष्येन जवति । ततस्तृतीये नवे मिथ्यात्वं गतः सन् नीचैर्गोत्रं बध्नाति, तच्च बन्नन् तत्रोच्चैर्गोत्रं संक्रमयति । ततः पुनरपि सम्यक्त्वमासाद्योच्चैर्गोत्रं बघ्नन् तत्र नीचैर्गोत्रं संक्रमयति । एवं नूयो नूय उच्चैर्गोत्रं नीचेर्गोत्रं च बनतो नीचैर्गोत्रबन्धव्यवच्छेदानन्तरं शीघ्रमेव सिद्धिं गन्तुकामस्य नीचैर्गोत्रबन्धचरमसमये उच्चैर्गोत्रस्य गुणसंक्रमेण बन्धेन चोपचितीकृतस्योत्कृष्टः प्रदेशसंक्रमो जवति ॥ ए३॥
ROCALCCANANCIENCECG
Jain Educa
ional
For Privale & Personal Use Only
inelibrary.org