________________
॥ए५ ॥
तिविहो उत्तीसाए णुकोसो ह नवगस्स य चमझा। एयासि सेसा सेसगाण सव्वे य विगप्पा ॥५१॥ प्रकृतिः
तिविहो त्ति-सातवेदनीयपञ्चेन्जियजातितैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिसुरजिगन्धकषायाम्समधुरमृउलघूष्णशीत (स्निग्धोषण)लक्षणशुजवर्णाघेकादशकागुरुलघूवासपराघातप्रशस्तविहायोगतित्रसादिदशकनिर्माणलक्षणानां षट्त्रिंशत्प्रकृतीनामुत्कृष्टोऽनुनागसंक्रमस्त्रिविधस्त्रिप्रकारः। तद्यथा-अनादिधुंवोऽध्रुवश्च। तत्राहि-त्रासां षट्त्रिंशत्प्रकृतीनां रूपक आत्मीयात्मीयबन्धव्यवच्छेदकाले उत्कृष्टमनुलागं बध्नाति बद्धा च बन्धावलिकायामतीतायां संक्रमयितुमारजते । तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः। ततः पकसयोगिकेवलिवर्जस्य शेषस्यानुत्कृष्ट एवानुनाग एतासां |संक्रामति । तस्य चादिर्न विद्यत इत्यनादिः ध्रुवाध्रुवौ अलव्यनव्यापक्ष्या। 'अहेत्यादि' अथशब्दस्तयाविधार्थे । नवकस्य उद्योतवज्रर्षजनाराचसंहननौदारिकसप्तकलक्षणस्यानुत्कृष्टोनुनागसंक्रमश्चतुर्विधः। तद्यथा-सादिरनादिधुंवोऽध्रुवश्च । तथाहि-एतेषामुद्योतवर्जानामष्टानां कर्मणां सम्यग्दृष्टिदेवोऽत्यन्तविशुष्परिणाम उत्कृष्टमनुनागं बवा बन्धावलिकायामतीतायां संक्रमयति । उद्योतनाम्नः पुनः सप्तमनरकपृथिव्यां वर्तमानो नैरयिको मिथ्यादृष्टिः सम्यक्त्वं प्रतिपत्तुकाम उत्कृष्टमनुनागवन्धं करोति । ततो बन्धावलिकायामतीतायां संक्रमयति । तं च जघन्येनान्तर्मुहूर्तमुत्कर्षतो ३ षट्पष्टी सागरोपमाणां यावत् । इह यद्यपि सप्तमनरकपृथिव्यां चरमेऽन्तर्मुहूर्तेऽवश्य मिथ्यात्वं गति तथाप्यतने नवेऽन्तर्मुतूर्तानन्तरं यः सम्यक्त्वं प्रतिपद्यते स इह गृह्यते । ततोऽपान्तराले स्तोको मिथ्यात्वकालो नवन्नपि चिरंतनग्रन्थेषु न विवदित इत्यस्माभिरपि षषष्टी सागरोपमाणां यावदित्युक्तं । तत उत्कृष्टात्प्रतिपतितस्यानुत्कृष्टः । स च सादिः।
Jain Education in cational
For Privale & Personal use only
Enelibrary.org