SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सोमुहुत्तत्ति - संक्रमणकाले सैव संख्येयवर्षप्रमाणा स्थितिः सोनमुहूर्ताऽन्तर्मुहूर्तेनाच्यधिका यत्स्थितिः सर्वा स्थितिः । तथाहि - अन्तरकरणे वर्तमानस्तां संख्येयवर्षप्रमाणां स्थितिं संज्वलनक्रोधे संक्रमयति, अन्तरकरणे च कर्मदलिकं न वि(वे) द्यते, किं तु तत ऊर्ध्व, ततोऽन्तरकरण कालेनान्यधिका संख्येयवर्षप्रमाणा स्थितिर्हास्यपट्कस्य जघन्य स्थितिसंक्रमकाले यत्स्थितिः । 'जहन्नबंधो' इत्यादि, पुरुषवेदस्य संज्वलनानां च यो जघन्यः स्थितिबन्धः प्रागुक्तः । तद्यथा - पुरुषवेदस्याष्टौ संवत्सराणि संज्वलनक्रोधस्य मासदयं, संज्वलनमानस्य मासः, संज्वलनमायाया अर्धमासः, स एव जघन्यः स्थितिबन्धोऽबाधाकालोनस्तेषां जघन्यः स्थितिसंक्रमः । अवाधारहिता हि स्थितिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंजवात्, 'अबाधाकालोना कर्म स्थितिः कर्मनिषेकः' इति वचनात् जघन्यस्थितिबन्धे चाडवाधाऽन्तर्मुहूर्तप्रमाणा । न च जघन्यस्थितिसंक्रमणकालेऽबाधाकालमध्ये प्राग्बद्ध सत्कर्म प्राप्यते, तस्य तदानीं सर्वस्यापि क्षीणत्वात् । ततोऽन्तर्मुहूर्तहीन एवैतेषां पुरुषवेदादीनां स्वस्वो जघन्यस्थितिबन्धो जघन्य स्थितिसंक्रमः, तदानीं चैतेषां यत्स्थितिः सर्वा स्थितिः स्वकीयेनोनेनाबाधारूपान्तर्मुहूर्तलक्ष्णेन युक्तोऽबाधाकालसहित इत्यर्थः । जघन्यः स्थितिबन्धः । ततः पुनरप्यावलिकाधिकेनोनो हीनः सन् प्रष्टव्यः । एतदुक्तं जवति - जघन्य स्थितिसंक्रमेऽबाधाकालः प्रक्षिप्यते । तत्प्रक्षेपानन्तरं चावलिकादिकं ततोऽपसार्यते । तदुत्सारणे च कृते यावती स्थितिर्भवति, एतावती जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः । श्रावलिकादिकं कस्मात्सार्यत इति चेदुच्यते - बन्धव्यवच्छेदानन्तरं बन्धावलिकायामतीतायां चरमसमयबद्धाः पुरुषवेदादिप्रकृतिलताः संक्रमयितुमारब्धाः । श्रावलिकामात्रेण च कालेन ताः संक्रम्यन्ते । संक्रमावलिकाचरमसमये च जघन्यः स्थिति Jain Educationational For Private & Personal Use Only inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy