________________
कर्म
५ ॥
Jain Education
प्रकृतीनामुदयसमयादारज्यावलिकामात्रा स्थितिरुदयावलिकेति पूर्वग्रन्थेषु व्यवहियते । तथा यद्यपि 'तीसासत्तरिचत्तालीसा' इत्यनेन ग्रन्येनेह मिथ्यात्वस्य सप्ततिसागरोपम कोटी कोटी स्थितिकस्योत्कृष्टतः स्थितिसंक्रम आपलिकाविकहीन उक्तस्तथाऽप्यन्तर्मुहूर्तोनोऽवगन्तव्यः । यतो मिथ्यात्वस्योत्कृष्टां स्थितिं बद्धा जघन्यतोऽप्यन्तर्मुहूर्त कालं यावन्मिथ्यात्वे एवावतिष्ठते । ततः सम्यक्त्वं प्रतिपद्य मिथ्यात्वस्य स्थितिमन्तर्मुहूर्तानां सम्यक्त्वं सम्यग्मिथ्यात्वे च संक्रमयति । ततोऽन्तर्मुहूर्तान एवास्योत्कृष्टः स्थितिसंक्रमः । वक्ष्यति च - 'मित्त मुकोसो' इत्यादि । इह पुनर्यत् सत्तरीत्युपादानं तदशेपाणामपि बन्धोत्कृष्टानां प्रकृतीनां व्याप्तिपुरःसरमविशेषेणावलिकाविकही नोत्कृष्ट स्थितिसंक्रमप्रदर्शनार्थं । ' सेसाएमा (व) लिगतिगुणो त्ति' शेषाणां संक्रमोत्कृष्टानामावलिका त्रिकहीन उत्कृष्टः स्थितिसंक्रमः । तथाहि - बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यन्तरे यावलिकाया उपरि संक्रामति । तत्र च संक्रान्ता सती यावलिकामात्रं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतीतायां सत्यामुदयावलिकात उपरितनी स्थिति| स्ततोऽप्यन्यत्र प्रकृत्यन्तरे संक्रामति । ततः संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आवलिका त्रिकहीन एव । तद्यथा-नरकधिकस्य विंशतिसागरोपमकोटी कोटी प्रमाणामुत्कृष्टां स्थितिं बद्धा बन्धावलिकायामतीतायां सत्यामावलिकांत उपरितनीं तां सर्वामपि स्थितिं मनुजधिकं बनन् तत्र मनुजधिके संक्रमयति, तत्र च संक्रान्ता सती आवलिकामात्रं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतिक्रान्तायां सत्यामुदयावलिकात उपरितनीं तां सर्वामपि स्थितिं देवधिकं बनन् तत्र संक्रमयति । एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम श्रावलिका त्रिकहीनो जावनीयः ॥ १॥
For Private & Personal Use Only.
प्रकृतिः
॥ ८५ ॥
library.org