________________
कर्म
|| 99 ||
Jain Education
तदेवं क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतग्रहविधिरुक्तः संप्रति कायिकसम्यग्दृष्टेः क्षपकश्रेण्यां संक्रमपतद्रहविधिरनिधीयते - तत्र दायिकसम्यग्दृष्टिरेकविंशतिसत्कर्मा रूपकश्रेणिं प्रतिपद्यते । तस्य चानिवृत्तिबादरसंपरायगुणस्थानं प्राप्तस्य पुरुषवेदसंज्वलनचतुष्टयरूपे पञ्चकपत हे प्रथमत एकविंशतिप्रकृतयः संक्रामन्ति । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ताश्चान्तर्मुहूर्त कालं यावत् । ततोऽन्तरकरणे कृते सति संज्वलनलोजस्य संक्रमो न जवतीति शेषा घादश प्रकृतयस्तस्मिन्नेव पञ्चकपतङ्ग्रहे संक्रामन्ति । ताश्चान्तर्मुहूर्त कालं यावत् । ततो नपुंसक वेदे क्षीणे एकादश । ता अपि अन्तर्मुहूर्त कालं यावत् । ततः स्त्रीवेदे की दश । ता श्रप्यन्तर्मुहूर्त कालं यावत् तस्मिन्नेव पञ्चकरूपे पतग्रहे संक्रामन्ति । ततः पुरुषवेदस्य प्रथम स्थितौ समयोनावलिका दिकशेषायां पुरुषवेदः पतग्रहो न जवतीति पञ्चकात्तस्मिन्नपनीते शेषे चतुकरूपे पतद्रहे ता एव दश संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकाधिकं । ततः षट्सु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुष्करूपे पतद्रहे संक्रामन्ति । ततः पुरुषवेदः क्षीणः । तत्समये च संज्वलनक्रोधस्यापि पतग्रहता न जवतीति तस्मिन्नपगते शेषासु तिसृषु प्रकृतिषु तिस्रः प्रकृतयः संक्रामन्ति । ताश्चान्तर्मुहूर्तं कालं यावत् । ततः समयोनावलिकाधिकेन कालेन संज्वलनक्रोधः क्षीयते । तत्समये च संज्वलनमानस्यापि पतद्भहता न भवतीति शेषयोर्धयोः प्रकृत्योछें प्रकृती संक्रामतः । ते चान्तर्मुहूर्त कालं यावत् । ततः समयोनावलिकाधिकेन कालेन संज्वलन - मानोऽपि क्षीयते । तत्समयमेव च संज्वलनमायाया अपि पतग्रहता न भवति । तत एकस्यामेव संज्वलनलोजलक्ष
Xational
For Private & Personal Use Only
प्रकृतिः
॥ 99 ॥
nelibrary.org