SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ त्युच्यते । तत्र बध्यमानप्रकृतिष्वबध्यमानप्रकृतीनां संक्रमो यथा-सातवेदनीये बध्यमानेऽसातवेदनीयस्य, उच्चैगोत्रे वा नीच्चैर्गोत्रस्येत्यादि । बध्यमानानां परस्परं संक्रमो यथा-बध्यमाने मतिज्ञानावरणीये बध्यमानमेव श्रुतज्ञानावरणं संक्रमयति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि। इह यत्प्रकृतिबन्धकत्वेन परिणत आत्मा तदनुलावेन प्रकृत्यन्तरस्थं दलिकं यत्परिणमयति स संक्रम इत्युक्तं ॥१॥ । एतच्च लक्षणं दर्शनत्रिकव्यतिरेकेणान्यत्र अष्टव्यं, दर्शनत्रिके पुनर्बन्धं विनापि संक्रमोऽवगन्तव्यः । तथा चाहउसु वेगे दिहिगं बंधेणविणा वि सुदिहिस्स।परिणाम जीसे तं पगईएँ पडिग्गहो एसा ॥२॥ मुसुत्ति-शुदृष्टेः सम्यग्दृष्टयोः सम्यक्त्वसम्यग्मिथ्यात्वयोराधारनूतयोमिथ्यात्वं, एकस्मिंश्च सम्यक्त्वे सम्यग्मिथ्यात्वं बन्धं विनापि संक्रामति । इयमत्र नावना-इह मिथ्यात्वस्यैव बन्धो न सम्यक्त्वसम्यग्मिथ्यात्वयोः। यतो मिथ्यात्वपुजला एव मदनकोऽवस्थानीया औषधविशेषकटपेनौपशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन त्रिधा क्रियन्ते, तद्यथा-शुधा अर्धविशुचा अविशुशाश्च। तत्र विशुझाः सम्यक्त्वं, अर्धविशुधाः सम्यग्मिथ्यात्वं, अविशुधा मिथ्यात्वं । तत्र विशुधसम्यग्दृष्टिः सम्यक्त्वसम्यग्मिथ्यात्वयोः बन्धं विनापि तत्र मिथ्यात्वं संक्रमयति, सम्यग्मिथ्यात्वं च सम्यक्त्वे इति । तदेवमुक्तं संक्रमस्य सामान्यलक्षणं, संप्रति यासु प्रकृतिषु प्रकृत्यन्तरस्थं दलिकं संक्रमयति तासां संज्ञान्तरमाइ-परिपामेत्यादि' यस्यां प्रकृती आधारजूतायां तत्प्रकृत्यन्तरस्थं दलिक परिणमयति आधारजूतप्रकृतिरूपतामापादयति एपा प्रकृतिराधारजूता पतद्रह इत्युच्यते । पतगह श्व पतद्रहः संक्रम्यमाणप्रकृत्याधार इत्यर्थः॥२॥ Jain Education For Privale & Personal use only Thinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy