SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥६ ॥ तदेवमुक्तं बन्धनकरणं । संप्रत्युद्देशक्रमेण वक्तुमवसरप्राप्त संक्रमकरणं । संक्रमश्च प्रकृतिस्थित्यनुनागप्रदेशरूपविषयजेदाच्चतुर्विधः। तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमन्निधातुकाम बाहसो संकमो त्ति वुच्च जं बंधणपरिणजे पलंगेणं । पगयंतरबदलियं परिणमयश्तयणुजावे ॥१॥ | सो संकमु त्ति-इह जीवो यद्वन्धनपरिणतो यस्याः प्रकृतेर्बन्धनेन बन्धकत्वेन परिपतः। अनेन किलेदमावेद्यतेयदि जीवस्तथारूपबन्धनपरिणामपरिणतो नवति ततः कर्मवर्गणापुमला अपि कर्मरूपतया परिणमन्ते, नान्यथा । उक्तं |च-"जीवपरिणामहेऊ कम्मत्ता पुग्गला परिणमंति । पोग्गलकम्मनिमित्तं जीवो वि तहेव परिणम ॥१॥" अस्या अनरगमनिका-जीवस्य सत्कात् परिणामादध्यवसायावेतोः, जीवपरिणामं हेतुमाश्रित्येत्यर्थः । कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशावगाढा पुजलाः कर्मरूपतया ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते । अथ जीवस्यापि तथारूपः परिणामः कस्मानवतीति चेडुच्यते-'पुग्गलेत्यादि' पुजलरूपं प्रारबद्ध कर्म विपाकोदयप्राप्तं तन्निमित्तं तत्सामर्थ्यादिति नावः । जीवोऽपि तथैव प्रदेशावगाढकर्मवर्गणान्तःपातिपुजलकर्मरूपतापत्तिहेतुतयैव परिणमत इति ॥ 'पउँगेणं ति' प्रयोगेण संक्वेशसंझितेन विशोधिसंझितेन वा वीर्यविशेषेण । विवक्षितायाः प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं विवक्तिबध्यमानप्रकृति व्यतिरिक्ताऽन्या प्रकृतिरित्यर्थः । तत्रस्थं दलिकं तदनुलावेन बध्यमानप्रकृतिस्वजावेन यत्परिणमयति परिणमनमापा-18 ६ दयति स संक्रम उच्यते । एतदुक्तं भवति-बध्यमानासु प्रकृतिषु मध्येऽवध्यमानप्रकृतिदलिकं प्रक्षिप्य वध्यमानप्रकृति रूपतया यत्तस्य परिणमनं, यच्च वा बध्यमानानां प्रकृतीनां दलिकरूपस्येतरेतररूपतया परिणमनं तत्सर्वं संक्रमणमि ॥६ ॥ Jain Education For Private & Personal use only Linelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy