________________
क्र० प्र०११
Jain Education
स्थानं सैव समयाधिका द्वितीयं । दिसमयाधिका तृतीयं । एवं तावद्वाच्यं यावदुत्कृष्टावाधाचरमसमयः । एतावन्त्येव चाबाधाकंरुकानि, जघन्याबाधात आरत्र्य समयं समयं प्रति कंरुकस्य प्राप्यमाणत्वात् । एतच्च प्रागेवोक्तं । तेन्य उत्कृष्टाबाधा विशेषाधिका, जघन्याबाधायास्तत्र प्रवेशात् । ततो दलिक निषेकविधौ द्विगुणहानिस्थानानि असंख्येयगुणानि, पल्योपमप्रथमवर्ग मूलासंख्येयनागगतसमयप्रमाणत्वात् । तत एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि, तेषामसंख्येयानि पल्योपमवर्गमूलानि परिमाणमिति कृत्वा तेन्योऽपि अर्थेन कंडकमसंख्येयगुणं । तस्माज्जाघन्यः स्थितिबन्धोऽसंख्येयगुणः, अन्तः सागरोपमकोटी कोटी प्रमाणत्वात् । संझिपश्चेन्द्रिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थिति - बन्धमन्तःसागरोपमकोटी कोटी प्रमाणमेव कुर्वन्ति । ततोऽपि स्थितिबन्धस्थानान्यसंख्येयगुणानि । तत्र ज्ञानावरणदर्श - नावरणवेदनीयान्तरायाणामेकोनत्रिंशङ्गुणानि समधिकानि मिथ्यात्वमोहनीयस्यैकोनसप्ततिगुणानि समधिकानि । नामगोत्रयोरेकोनविंशतिगुणानि समधिकानि । तेज्य उत्कृष्टा स्थितिर्विशेषाधिका, जघन्य स्थितेरबाधायाश्च तत्र प्रवेशात् । तथा संज्ञिपञ्चेन्द्रियेष्वसंज्ञिपश्चेन्द्रियेषु वा पर्याप्तकेषु प्रत्येकमायुषो जघन्याऽवाधा सर्वस्तोका । ततो जघन्यः स्थितिबन्धः संख्येयगुणः, स च क्षुल्लक वरूपः । ततोऽबाधास्थानान्यसंख्येयगुणानि । जघन्याबाधारहितः पूर्वकोटी त्रिजागरहित इति कृत्वा । ततोऽप्युत्कृष्टाऽबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो विगुणहानिस्थानान्यसंख्येयगुणानि, पस्योपमप्रथम वर्गमूला संख्येय जागगतसमयप्रमाणत्वात् । तेन्योऽप्येकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि । तत्र युक्तिः प्रागुक्तावगन्तव्या । ततः स्थितिबन्धस्थानान्यसंख्येयगुणानि । तेन्योऽप्युत्कृष्टः स्थितिबन्धो विशे
onal
For Private & Personal Use Only
inelibrary.org