________________
Jain Educati
दश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिरवगन्तव्येत्यर्थः । दश वर्षशतानि चाबाधा | अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'तीया विडी' तेषां संस्थानानां संहननानां च मध्ये द्वितीयादिषु द्वितीयतृतीयादिषु संस्थानेषु संहननेषु च दिवृद्धिः द्विकवृद्धिः क्रमेणावसेया । तद्यथा - द्वितीययोः संस्थानसंहननयोर्द्वादश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, द्वादश वर्षशतानि चाबाधाकालः । अवाधाकालहीनश्च कर्मदलिक निषेकः । तृतीययोः संस्थान संहननयोश्चतुर्दश सागरोपमकोटीकोव्य उत्कृष्टा स्थितिः, चतुर्दश वर्षशतानि चाबाधाकालः, अवाधाकालहीनश्च कर्मदलिक निषेकः । चतुर्थयोः संस्थानसंहननयोः षोमश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, षोमश वर्षशतान्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । पञ्चमयोः संस्थान संहननयोरष्टादश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, अष्टादश वर्षशतानि चाबाधाकालः, बाधाकालहीनश्च कर्मदलिक निषेकः । षष्ठयोः संस्थानसंहननयोविंशतिसागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, दे वर्षसहस्रे बाधाकालः, अबाधाकालहीनश्च कर्मदलिक निषेक: । 'अहारस सुदुमविगलतिगे' सूात्रिके सूक्ष्मापर्यातसाधारणरूपे, विकलत्रिके दीन्द्रियत्रीन्द्रियचतुरिन्द्रियजा तिलक्षणे, अष्टादशसागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, अष्टादशवर्षशतान्यवाधाकालः, अवाधाकालहीनश्च कर्मदलिक निषेकः ॥ ७२ ॥
गिराहारगे तो वीसास निच्चनामाणं । तेत्ती सुदही सुरनारयाज सेसाउ पलतिगं ॥ ७३ ॥ 1 तिर ति तीर्थकरे, श्राहारक पिके आहारकशरीराहारकांगोपांगरूपे अन्तःकोटी कोटी उत्कृष्टा स्थितिः । अन्तर्मुहूर्तमबाधाकालः, अबाधाकालहीनश्च कर्मद लिकनिषेकः । 'वीसास निश्च्चनामाएं' शेषाणां नामप्रकृतीनां नरकगतिनरकानु
national
For Private & Personal Use Only.
ainelibrary.org