________________
क्लेशस्थानापेक्ष्या उत्कृष्टे स्थितिस्थाने संक्लेशस्थानान्यसंख्येयगुणानि जवन्ति तदा बादरापर्याप्त स्थितिस्थानेषु सूक्ष्मापर्याप्त स्थितिस्थानापेक्षयाऽसंख्येयगुणेषु सुतरां जवन्ति । एवमुत्तरत्रापि असंख्येयगुणत्वं जावनीयमिति ॥ ६८-६९ ॥ एमेव विसोही विग्धावरणेसु को डिकोमी | उदही तीसमसाते श्रद्धं यो मणुयडुगसाए ॥ ७० ॥
एमेव त्ति - 'एमेव विसोहीउ त्ति' यथा संक्वेशस्थानान्यसंख्येयगुणतया प्रागुक्तानि एवमेवासंख्येयगुणतयैवेत्यर्थः । विशोधयोऽपि विशोधिस्थानान्यपि वक्तव्यानि । यतो यान्येव संक्लिश्यमानस्य संक्केशस्थानानि तान्येव विशुध्यमानस्य सतो विशुविस्थानानि जवन्ति । एतच्च प्रागेव सप्रपञ्चं जावितं नेह ज्यो जाव्यते । ततो विशोधिस्थानान्यपि संक्लेशस्थानवत् क्रमेण सर्वत्राप्यसंख्येयगुणानि वक्तव्यानि । सांप्रतमुत्कृष्टेतर स्थितिप्रतिपादनार्थमाह - ' विग्घ त्ति' अन्तरायमावरणं ज्ञानावरणं दर्शनावरणं च । तत्र पञ्चानामन्तरायप्रकृतीनां पञ्चानां ज्ञानावरणप्रकृतीनां नवानां च दर्शनावरणप्रकृतीनां सात| वेदनीयस्य चोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमाणां कोटी कोट्यः । इह द्विधा स्थितिः कर्मरूपतावस्थानलक्षणाऽनुजवयोग्या च । तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघन्योत्कृष्टप्रमाणानिधानमिदमवगन्तव्यं । अनुजवप्रायोग्या पुनरवाधाकालहीना । येषां च कर्मणां यावत्यः सागरोपमकोटी कोट्यस्तेषां तावन्ति वर्षशतानि अबाधाकालः । तथाहिमतिज्ञानावरणस्य त्रिंशत्सागरोपमकोटी कोट्य उत्कृष्टा स्थितिरतस्तस्यावाधा कालोऽप्युत्कृष्ट स्त्रिंशवर्षशतान्यवगन्तव्यः । यतस्तन्मतिज्ञानावरणमुत्कृष्टस्थितिकं बद्धं सत्रिंशघर्षशतानि यावन्न काञ्चिदपि स्वोदयतो जीवस्य वाधामुत्पादयति । अबाधाकालहीनश्च कर्मदलिक निषेकः । एवं श्रुतज्ञानावरणादीनामप्युक्तप्रकृतीनामबाधाकालोऽबाधाकालहीनश्च कर्म
Jain Educationational
For Private & Personal Use Only
nelibrary.org