________________
श्रीमती ओपनियुक्तिः ॥७२॥
भिक्षार्थ प्रविशतः कर्तव्यानि
यदि महांस्ततः स्थण्डिले याति, अथ स्वल्पस्ततोऽस्थण्डिल एव यतनया भुङ्क्ते ॥१४५॥ इमां प्रतिपदं व्याख्यानयति, तत्र च प्रवेशविधिरुक्तः, बहिःस्थितस्य विशेषदोषानाह--
फेडेज्ज व सइ कालं, संखडि घेत्तूण वा पए गच्छे ।
सुण्णघराइपलोयण, चेइअ आलोयणाऽवाहं ॥१४६॥ स बहिःस्थितः 'फे०' अपनयेत. 'स०' विद्यमानं भिक्षाकालं ग्रामे प्रहरमात्र एव भिक्षावेला स्यात्, तामपनयति, संखड्युद्धरितं पर्युषितं भक्तं गृहस्थैः प्रातरेव भुक्तं तस्य भ्रष्टः, अथ प्रगे राद्ध लात्वा ग्रामान्तरं गतः श्रावकः, ततश्च साधुस्तस्य भ्रष्ट इति, अत एतद्दोषभयात् प्रवेष्टव्यम् । प्रविशन् शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुङ्क्ते, प्रविष्टश्च श्राद्धगृहे चैत्यानि वन्दते, आलोचनां श्राद्धाय ददाति, यदुताऽहमाचार्येण कारणवशादेकाकी प्रहित इति, अबाधा भवतां व्रतादिषु ? ॥१४६॥ तत्र प्रविष्टो भिक्षायै दोषान् कथयन्नाह--
उग्गम एसणकहणं, ण किंचि करणिज्ज अम्ह विहिदाणं ।
कस्सट्ठा आरम्भो, तुज्झेसो ? पाहुणा डिभा ॥१४७॥ आधाकर्मादिदोषकथनम् , आरम्भ दृष्ट्वा नाऽस्मदर्थ किश्चित्कर्तव्यम् , अस्माकं विधिदानं क्रियते । अथ श्राद्धो न ब्रूते, तदा डिम्भरूपाणि पृच्छति, 'कस्सट्ट'त्ति ? इति पृष्टे तान्याहुः- त्वदर्थमयमारम्मो यतः प्राघूर्णका यूयम् अथवा प्राघूर्णकार्थ न तव ॥१४७॥ अथाभकाणि न सन्ति ततः किम् ? इत्याह--
॥७२॥
Jain Education T
all
For Private & Personal use only
elibrary.org