________________
__ श्रीमती ओधनियुक्तिः ॥४३॥
वनस्पतित्रसकाययतनाविधिः।
यथान्तरिक्षोदकयतनोक्ता, 'आसन्ना उ' इत्यादि. [६३ गा. तृतीयचरणे] सा इहापि दृश्या, 'नवरि'त्ति | अयं विशेषः 'नितम्बे'-पर्वतैकदेशे 'वननिकुञ्ज वा स्थेयं, यदि प्रदेशः सभयः 'पाउरण'-प्रावृत्य घनं कल्पंकम्बलादिरूपकं गच्छति, 'अलंबमाणं तु' यथा कोणो न प्रलम्बते, तत्र वायौ कल्पप्रावृतशरीरस्य सचित्तयतना, अप्रलम्बं कल्यं कुर्वतोऽचित्तयतना, प्रावृतस्यैव मिश्रापि, एषा त्रिप्रकारा यतना ॥७५॥ वनस्पतिद्वारमाह
तिविहो वणस्सई खलु, परित्तऽणंतो थिराथिरेक्केको ।
संजोगा जह हेठ्ठा, अकंताई तहेव इहिं ॥७६॥ त्रिविधो वनस्पतिः । सचित्ताचित्तमिश्ररूपः । एकैको द्विधा-परित्तोऽनन्तश्च, स्थिरो-दृढसंहननः । इतरोड| स्थिरः । संयोगा, यथा 'हिट्ठा' पश्चादाक्रान्तानाक्रान्तसप्रत्यपायादयस्तथैवात्रापि, अचित्त-परित्त-थिर-अत-निपचवाएणं गम्मइ एसो सुद्धो पढमभंगो, सेसा एगतीसं भंगा जहासमयं भइयव्वा ।।७६॥ त्रसद्वारमाह--
तिविहा बेइंदिया खलु, थिरसंघयणेयरा पुणो दुविहा ।
अकंताई य गमो, जाव उ पंचिदिआ णेआ ॥७७॥ त्रिधा द्वीन्द्रियाः सचित्तादिभेदात् , सचित्ताः सकलजीवप्रदेशवन्तः, अचित्ता विपर्ययात् , मिश्राः करम्बीभूताः, पुनरेकैको द्विधा-स्थिरसंहननोऽस्थिरसंहननश्च, आक्रान्तादिर्गमो-भङ्ग इत्यनेन चतुर्भङ्गी। अयं क्रमस्त्रीन्द्रियचतुरिन्द्रिय-पञ्चेन्द्रियाणां सचित्तादिर्योजनीयः ॥७७॥ एवं सजातीययतनोक्ता, विजातीयेन सहाऽऽह
॥४३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary:org