________________
श्रीमती घनियुक्तिः ॥२९॥
पादप्रमार्जनविधिः।
तस्य गच्छतोऽयं विधिः
अत्थंडिलसंकमणे, चल-चक्खित्तणुवउत्तसागरिए ।
पडिपखेसु उ भयणा, इयरेण विलंबणा लोगं ॥४६॥ स्थण्डिलादस्थण्डिलं संक्रामता साधुना पादौ रजोहरणेन प्रमार्जनीयौ, यदा सागारिकश्चलः -पथि व्रजन्, व्याक्षिप्तोव्यापारव्यग्रः, अनुपयुक्तो-निरवधानो, यद्येवंविधस्ततो रजोहरणेन प्रमार्जयति, प्रतिपक्षेषु भजना-विकल्पना केषुचित् क्रियते केषुचिन्नैव । यदा सागारिकः स्थिरो व्याक्षिप्त उपयुक्तः साधु प्रति भवति, तदा 'इयरेण'-इतरशब्देन रजोहरणनिषद्योच्यते, कार्यासिकेनौणि केन वा पादौ प्रमाटि तां हस्तेन विलम्बमानां नयति, न तु देहं स्पर्शयति, कियती भुवं ? यावत्तदृष्टिप्रसरः, अथवेतरेण चीवरादिना पश्चात्तां (तं) गोषयति । इतरेण वा सार्थेन सह बजता विलम्बना कार्या, मन्दगतिना गन्तव्यम् , अदर्शनीभूते सार्थे वृक्षान्तरितोऽयं प्रमार्जयति । अत्र चल-व्याक्षिप्ता-नुपयुक्तैत्रिभिः पदैरष्टौ भङ्गकाः, सर्वत्रानुपयुक्ते भङ्गेऽस्ति प्रमार्जनं, तस्यानुपयुक्तत्वात्, शेषेषु नास्ति, चतुषु अस्ति, चतुर्षु नास्ति ॥४६॥ साधुर्मार्गमजानानः पृच्छति, तत्राऽयं विधिः
पुच्छाए तिष्णि तिआ, छक्के पढम जयणा ति-पंचविहा। आउम्मि दुविह-तिविहा, तिविह्य सेसेसु काएसु ॥४७॥
॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org