________________
श्रीमती घनिर्युक्तिः ॥४३२॥
Jain Education
donal
पट्स्थाने प्राणातिपातादिके, उद्गमादिके च त्रिके, अनयोरेकतरे द्वयोर्वा छलितेन - स्खलितेन वा साधुना विशुद्धिः कार्या, निःकलङ्का दुःखक्षयार्थम् ॥ ११२७॥ सा च विशुद्धिरालोचनापूर्विका भवति, इति कृत्वाऽऽलोचनामाह -
आलोयणा उदुविहा, मूलगुणे चेव उत्तरगुणे य । एक्का चउकण्णा, दुवग्ग सिद्धावसाणा य ॥ ११२८॥
द्विविधाऽप्येकैकाऽऽलोचना चतुःकर्णा भवति, द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य, प्रथमैक आचार्य:द्वितीय आलोचकः साधुः, एवं साधुवर्गे, एका प्रवर्त्तिनी द्वितीयाऽऽलोचयित्री, एवं साध्वीवर्गे, १ अथवा द्वयोश्व साधुसाध्वीवर्गयोर्मिलितयोरष्टकर्णा, कथम् ?, आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीयाऽऽलोचयति । षट्कर्णा वा कथं ? वृद्वाचार्यस्यैकस्याऽपि साध्वीद्विकमालोचयति । आचार्य गीतार्थाद्यभावे सिद्धसाक्ष्याऽऽलोचना ग्राह्या ॥ ११२८ ॥
आलोयणा वियडणा; सोही सम्भावदायणा चेव । णिदण गरिह विउट्टण, सल्लुद्धरणंति एगट्ठा ॥ ११२९॥
१
• अथवा मूलगुणे उत्तरगुणे च चतुष्कर्णा • k
२. ० सामान्यसाध्वी वा यद्यालोचयति षट्कर्णा • iki
For Private & Personal Use Only
आलोचना
द्वारम् ।
॥ ४३२ ॥
www.jaintelibrary.org