________________
श्रीमती चिनियुक्तिः। ॥३८७॥
उपधिद्वारे उपधिपर्यायाः ।
उक्तं पिण्डद्वारम् । उपधिद्वारमाह-शुद्धस्य वस्त्रादेर्यथा धरणं भवति, तथा वक्ष्ये ॥९९०॥ तत्वभेदपर्यायाख्येति न्यायात् पर्यायानाह
उवही उवग्गहे संगहे य, तह पग्गहुग्गहे चेव ।
भंडग उवगरणे या (प्र. विय), करणेवि य हुँति एगट्टा ॥९९१॥ उपदधातीत्युपधिः, किं ? द्रव्यतः शरीरं, भावतो ज्ञानादीनि उपदधाति १, उपगृहणातीत्युपग्रहः २. संगृह्णातीति संग्रहः ३, प्रकर्षेण गृ० प्रग्रहः ४, अवगृह्णातीत्यवग्रहः ५, भण्डकं ६, उपकरणं ७, करणं ८, इत्येते एकार्थाः | ॥९९१।। तदभेदमाह
ओहे उवग्गहमि य, दुविहो उवही उ होइ णायव्यो ।
एकेको वि य दुविहो, गणणाए पमाणतो चेव ॥९९२॥ ओघोपधिः उपग्रहोपधिश्चेति द्विधोपधिः, स एकैको द्विधा गणनया प्रमाणतश्च, तत्रौधोपधिः नित्यमेव यो गृह्यते, उपग्रहोपधिस्तु कारणे आपन्ने संयमार्थ यो गृह्यते ।।९९२॥ तत्रौषोपधिर्जिनकल्पिकानां प्रतिपाद्यते, तत्राऽपि गणनाप्रमाणत आह
१. गणनाप्रमाणेन प्रमाणप्रमाणेन चेति भावः ।सं।
॥३८७||
Jain Education International
For Privale & Personal use only
www.jainelibrary.org