________________
श्रीमती
घनियुक्तिः
ग्रहणैषमायां स्थानद्वारे
॥२८॥
आत्मोप
घातादिः।
पिण्डग्रहणं कुर्वता वक्ष्यमाणं [१]स्थानत्रयं त्याज्यं, १आत्म२-संयम-प्रवचनोपघातम् , [२]दाता परीक्ष्यो योऽव्यक्तादिरूपो न स्यात् , [३] दातुर्गमन-भिक्षार्थमन्तः प्रविशतो निरूप्यम् , [४] यस्मोद्भाजनाद् गहणं करोति तन्निरूप्यम् , [५] स आगच्छन् निरूप्यः,[६] प्राप्तस्य दातुर्हस्तमात्रादिरुदकाों नवेति, [७] परावृत्तं अधोमुख स्थितं ददतो दादि, [८] पातितः पात्रे पिण्डो निरूप्यः, [९]गृहिभाजन स्थाल्यादि गुरु भवति पाषाणादिवोपरि दत्तो भवति, [१०] त्रिविधोऽपि कालो वाच्यः, [११]भावश्च प्रशस्ताप्रशस्तरूपो वाच्यः ॥७१३॥ इमां गाथां प्रतिपदमाह
आया पवयण संजम, तिविहं ठाणं तु होइ णायव् ।
गोणाइ पुढविमाई, णिद्धमणाई पवयणमि ॥७१४॥ गवादिमिरात्मोपघातो भवति, पृथिवीकायादिभिः संयमोपघातश्च, निद्धमणाई-नगरोदकोपघसरादि-उपघातस्थानं प्रवचनविषयं भवति । ७१४। गवादिभिः कथमात्मोपघातो भवति ?, आह
गोणे महिसे आसे, पेल्लणे (प्र.ण) आहणण मारणं भवइ (प्र.वावि) ।
दरगहिय भाणभेदो छड़णि भिकखम्स सक्काया ॥७१५॥ गोमहिष्यादिस्थाने प्रेरणमाघातो मारणं भवति 'दर' अर्द्धगृहीतायां भिक्षायां भाजनभेदो भवति, भिक्ख० भिक्षोज्झने षडपि काया विराध्यन्ते, अतः संयमविराधना ॥७१५॥ अथवाऽनेन प्रकारेणात्मविराधना भवति
॥२८९॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org