________________
श्रीमती निर्युक्तिः
२६१॥
नामस्थापने सुगमे । द्रव्ये - हिरण्यादेर्गवेपणा, भावैषणा त्रिधा - गवेषणा (१) ग्रहणपणा (२) ग्रासैषणा (३) भेदेन || ६२५ || सा च गवेषणा एभिद्वारैरभिगन्तव्या --
पमाणे काले आवस्सए य, संघाइए य उवकरणे ।
मत्त काउस्सग्गो, जस्स य जोगो सपविकखा ॥६२६॥
प्रमाणं कतिवारा भिक्षार्थ प्रवेष्टव्यमित्येतद्वक्ष्यति, काले - कस्यां वेलायां भिक्षा गवेषणीया?, आवश्यकं - कायिक्यादि व्युत्सर्गं कृत्वा गोचरे गम्यं, संघाटकयुक्तेन हिण्डनीयं नैकाकिना, भिक्षामटता किम् ? उपकरणं सर्वं स्तोकं वाग्राह्य, भिक्षामटता मात्रकं ग्राह्य, कायोत्सर्ग उपयोगप्रत्ययः कार्यः । ' यस्य च योगः ' गच्छन्निदं वक्ति, येन वस्तुना सह योगो भवति तं ग्रहीष्यामि, सर्व एवायं द्वारकलापः सप्रतिपक्षो वाच्यः । द्वारगाथेयम् ।।६२६ || दुविहं होइ पमाणं, काले भिक्खा पवेसमाणं च ।
Hoणा मिखायरिआ, भिक्खे दो काल पढमदा ||६२७||
द्विविधं प्रमाणं भ०, एकः कालनियमोऽन्यद्भिक्षार्थं प्रविशतां वारालक्षगं प्रमाणं, भिक्षार्थं वारद्वयं प्रविशति, एकमकालसञ्ज्ञायाः पानकनिमित्तं द्वितीय भिक्षार्थमिति द्वे भिक्षे, तृतीयवार न कल्पते । उक्त भिक्षाप्रवेशवाराप्रमाणम् । भिक्षाकालमहि - 'काल पढमद्धा' प्रथमपौरुष्यां यदर्द्ध' तत्र प्रवेष्टव्यम् । उक्तं कालप्रमाणम् ||६२७||
Jain Education International
For Private & Personal Use Only
प्रमाणादिद्वारे - गवेषणा |
॥२६१॥
www.jainelibrary.org