________________
श्रीमती ओघनियुक्तिः ॥२२९॥
वर्षावधावने दोषाः ।
ऋतुबद्धे यदि वस्त्रधावन क्रि०, तदा बाकुसिकः स्याद् , भूषणशील इत्यर्थः, यदा च विभूषणशीलस्तदा ब्रह्मविनाशः, तथाऽस्थानस्थापनं स्याद् , नूनमयं कामी, तेनाऽऽत्मानं मण्डयति, अयोग्यतास्थापनमित्यर्थः । संपाति- मसत्वानां वायाश्च वधो भवति प्लबनेन च सत्ववधो भ०, हस्तकण्डकनिपतनादात्मोपवातश्च ॥५४२॥ आहयद्यैवं न धावितव्यान्येव चीवराणि? उच्यते-वर्षाकाले प्रक्षालयति, अप्रक्षालन एते दोषाः
अइभारचुडणपणए, सीयलपावरण अजीरंगेलण्णे ।।
ओभावणकायवहो, वासासु अधोवणे दोसा ॥५४३॥ मलिनानि गुरूणि भवन्ति, 'चुड०' जीर्यते, पनकश्च लगति, शीतलप्रावरणेऽजीर्ण स्यात्ततो ग्लानता भ०, 'ओहा०' परिभवो भ०, कायवधश्च भ०, तान्यार्द्राणि च्योतन्ति सन्ति अप्कायादि विनाशयन्ति, एते वर्षास्वधावने दोषाः ॥५४३।। कदा प्रक्षाल्यन्ते इत्याह--
अप्पत्ते चिय वासे, सव्वं उवहिं धुवंति जयणाए ।
असइए व दवस्स उ, जहण्ण ओ पायणिज्जोगो ॥५४४॥ अप्राप्ते वर्षाकाले अर्द्धमासमात्रेण सर्वामुपधि प्रक्षालयन्ति । प्रचुरपासुकोदकाऽभावे जघन्येन पात्रनिर्योग३ मलेनातिभवन्ति ।।। २ विनाशति ।।
॥२२९॥
www.jainelibrary.org
Jain Education International
For Private & Personal use only