________________
श्रीमती घनियुक्तिः २१४॥
स्थण्डिले प्राप्तस्य विधिः।
धारयत आत्मोप०, तत्रैव व्युत्सृजतः प्रवचनोपघातः, तत्रैवाप्रत्युपेक्षितेऽप्युत्सृजतः संयमोपघातोऽपि, अतोऽनागतमेव || गम्यम् ॥५०॥ बिलवर्जितमाह
होति बिले दो दोसा, तसेसु बीएसु वावि त चेव ।
संजोगओ अ दोसा, मूलगमा होति सविसेसा ॥५०१॥ बिलप्रदेशे व्युत्सृजतो दोषद्वयं संयमात्मोपघातरूपं स्यात् , त्रसेषु जीवेषु च व्युत्सृजतस्तावेध दोषौ, संयोगतो द्वयादिदोषसंबन्धेन मूलगमात् मूलभेददोषात् सविशेषतरा-द्विगुणा(दयो)दोषा भवन्ति, मूलभेदे तावदापातसंलोकदोषदुष्टता, ततो द्विदोषसंयोगतः स विशेषा दोषाः स्युः ॥५०१॥ निर्दोषस्थण्डिले प्राप्तस्य विधिभाह
दिसिपवणगामसूरिय-छायाए पमजिऊण तिक्खुत्तो।
जस्साग्गहोत्ति काऊण, वोसिरे आयमेजा वा ॥५०२॥ पूर्वोत्तरदिशोः पवनग्रामसूर्याणां पृठं न देयं व्युत्सृजतो लोकविरोधात् , छायायां त्रिवारान् प्रमृज्य व्युत्सृज्य [व्युत्सृजनीयं], यस्यायमवग्रहस्तेनानुज्ञातव्यम् इत्येवं कृत्वा, आचमय्य निलेपनं कृत्वैवमेव कुर्यात् ॥५०२।। एतां गाथां व्याख्यानयति
उत्तरपुव्वा पुज्जा, जम्माए निसियरा अहिवडंति। धाणाऽरिसा य पबणे, सूरियगामे अवण्णो उ ॥५०३॥
॥२१४॥
Jain Education International
For Privale & Personal use only
Mainelibrary.org