________________
. श्रीमती प्रोपनियुक्तिः ॥११५॥
शय्यातरमनापृच्छय गमने दोषाः।
कथमदृष्ट जानन्तीत्यतो मिथ्यात्वं प्रतिपद्यते, छेदो वसतिदानस्य पुनस्तेऽन्ये वा वसतिं न लभन्ते। 'क'० कृतघ्ना येते इति मन्यते । 'गि गृही कोऽपि श्रीवकस्तमाचार्यमाभिधार्य संचिन्त्यायातः प्रव्रज्यार्थम् । तेनाऽप्यागत्य शय्यातरः पृष्टः क्वाचार्यः सोऽपि रुष्टः सन्नाह-यः कथयित्वा याति स ज्ञायते तं तु को जानाति । तदाकर्ण्य स कदाचिदर्शनमुज्झति, लोकज्ञानमप्येषां नास्ति कुतः परलोकज्ञानमिति, पाठार्थी साधुस्तमाचार्य: मनसि कृत्वाऽऽयाति? शय्यातरं पृच्छति, सोऽप्याऽऽह-न जाने क्वाऽपि गत इति, ततः स साधुरनाचारवानाचार्य इति विचिन्त्यान्यत्र याति, आचार्यों निर्जराया अनाभागी । कदाचित्तद्गृहं केनचित्तस्मिन्नेव दिने मुष्ट' स्यात्ततः स्तेना इति शङ्का भवति, आदिशब्दाद्योषित् केनचित् सह गता ततो गृहात, तेऽप्यनाख्याय गताः, ततः शङ्का । यच्चान्यदपि शङ्कादि जातं पत्तनगतं तत्सर्वमुपजायते ॥२४५॥ ततो गच्छद्भिः स विधिना प्रष्टव्यः । अविधिपृच्छायामेते दोषाः(०२०) अविहीपुच्छा उग्गाहिएण, सिज्जातरी उ रोएज्जा ।
सागारियस्स संका, कलहे य सएज्जिआ खिसे ॥२४६॥ अविधिपृच्छेयं, यदुत-उत्क्षिप्तोपकरणेन पृच्छति । तेनाकस्मिकगमनेन शय्यातों रुदन्ति, शय्यातरस्य शङ्का | १ याति । रुटाय्यातरकथनेऽनाचारवानयमित्यन्यत्र याति. ॥ki २. (प्र) वसहीए वोच्छेभो, अभिसंधारितयाण साहूणं ।
पुणरावत्ती होज क, फवग्जाउज्जुअमईणं ॥२४६।।
॥११५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org