________________
श्रीमती घनियुक्तिः ॥१८॥
वसतेषभकल्पना तद
गेषु वसतो लाभालाभादि।
सिंगक्खोडे कलहो, ठाणं पुण णेव होइ चलणेसुं ।
अहिठाणि पोट्टरोगो, पुच्छंमि अ फेडणं जाण ॥२२९॥ तत्र वामपार्थोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्र बुद्धया कल्पयित्वा तत इदमुच्यते-शृङ्गप्रदेशे यदि वसति करोति ततः कलहो भवतीति क्रियां वक्ष्यति, स्थानमवस्थिति स्ति पदप्रदेशेषु चरणेषु, अधिष्ठानेऽपानप्रदेशे उदररोगः, पुच्छप्रदेशे फेडनमपनयनं वसत्याः ॥२२९।।
मुहमूलंमि अ चारी, सिरे य कउहे य पूयसकारो । ___ खंधे पट्टीए भरो, पोटॅमि य धायओ वसहो ॥२३०॥ मुखमूले चारी भवति, शिरसि शंगयोमध्ये ककुदे च पूजासत्कारो भवति । स्कन्धे पृष्ठे च भरः साधुभिरागच्छद्भिराकुला स्यात् , उरःप्रदेशे तु नित्यं तृप्तः स्यात् क्षेत्रवृषभः, वसतिर्व्याख्याता । तद्व्याख्यानाच देवकुलशून्यगृहाद्यपि व्याख्यातम् ॥२३०॥ 'पाउग्ग अणुन्नवणे'त्यवयवमाह
दव्वे तण-डगलाई, अच्छण-भाणाइधोवणा खेत्ते ।
काले उच्चाराई, भावेण गिलाणकुरूवमा ॥२३१॥ द्रव्यतः - द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थ, डगलानां 'चाधिष्ठानप्रोञ्छनार्थ लेष्ट्रनामनुज्ञापना क्रियते ।
॥१०८॥
Jain Educati
o nal
For Private & Personal use only
www.jainelibrary.org