SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥१०९॥ शय्यातरेण सह वसतेः विषये प्रश्नोत्तराणि। 'अच्छण'त्ति स्वाध्यायादि यत्रोपविश्य क्रियते भाजनादिधावनं च, सा क्षेत्रानुज्ञा-दिवारात्रौ वोच्चारादिव्युत्सर्जनम् । भावाऽनुज्ञापना-ग्लानादेः साम्यकरणार्थ निवातप्रदेशाद्यनुज्ञापना क्रियते । 'वियालणे तस्स परिकहणे'त्यवयवमाहकूरोपमा, यदा यय्यातरो ब्रूते इयति प्रदेशे मयाऽवस्थानमनुज्ञातं नाधिकं, तदा तस्य परिकथना कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भाजनोदकासनाद्यपि दत्ते नान्यः, एवं वसतिं प्रयच्छता तृणोच्चारप्रश्रवणभूम्यादि सामर्थ्याऽऽक्षिप्तं सर्वमेव दत्तम् । शय्यातरोऽथवेदं विचारयति कियन्तं कालं स्थास्यन्ति भवन्तः, इत्थं विचारे तस्य कथना ॥२३१॥ जाव गुरूण य तुज्झ य, केवइया तत्थ सागरेणुवमा । केवइ कालेणेहिह ?, सागार ठवंति अण्णेवि ॥२३२॥ यावद् गुरूणां तव च प्रतिभाति तावदवस्थानं करिष्यामः । अथवा कति स्थास्यथ? इति विचारे, [प्रश्ने] कथ्यते-यथा सागरः कदाचिदुद्वेलः कदाचिन्मर्यादावस्थः एवं गच्छोऽपि, कियता कालेनाऽऽगमिष्यथेत्युक्ताः साधवः 'साग'० सविकल्पं कथयन्ति, (कुर्वन्ति) कथं ? 'अण्णेवि अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गताः सन्ति तैरालोच्य समेष्यामः ॥२३२॥ पुवदिटे इच्छइ, अहव भणिज्जा हवंतु एवइया । तत्थ ण कप्पइ वासो, असइ खेत्ताणऽणुण्णाओ ॥२३३॥ ॥१०९।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy