________________
श्रीमती पिनियुक्तिः ॥१०२॥
गमनविधी पथ्युच्चारभूम्यादिदर्शनम्।
सामायारिमगीए, जोगमणागाढ खवग पारावे ।
वेयावच्चे दायण-जुयलसमत्थं व सहिअं व ॥२१५॥ अगीतार्थस्य सामाचारी कथ्यते, तदभावेऽनागाढयोगी 'योगं निक्षिप्य पारयित्वा-भोजयित्वा प्रेष्यते, तदभावे क्षपकः पारयित्वा प्रेष्यते, तदभावे वैयावृत्यकरः प्रेष्यते, 'दाय' स च वैयावृत्यकरः कुलानि दर्शयति । तदभावे युगलं वृद्धबालौ तरुणसहितौ, वृद्धस्तरुणसहितः बालस्तरुणसहितो वेत्यर्थः । समर्थों वृषभः प्रेष्यते तरुणेन बालेन वृद्धेन वा सहितः, वः पादपूरणे । आह-पूर्व बालादय उपन्यस्तास्ततः कस्मात्तेषामेव न विधिरुक्तः पूर्वम् ? उच्यते, अयमेव प्रेषणविधिर्यत्प्रथममगीतार्थस्तदनु योगिप्रभृतयः । अप्रेषणाईत्वं सर्वेषां तुल्यं वर्तते ततो योऽस्तु | सोऽस्तु प्रथमं न कोऽपि दोषः ।।२१५।। तेषां गमनविधिमाह--
___पंथुच्चार उदए, ठाणे भिक्खंतरा य वसहीओ।
तेणा सावयवाला, पच्चावाया य जाणविही ॥२१६॥ पन्थानं चतुर्विधया प्रत्युपेक्षणया निरूपयन्तो यान्ति, उच्चार-प्रश्रवणभूमि निरूपयन्तो ब्रजन्ति, पानकस्थानानि निरूपयन्ति येन बालादीनां पानीयमानीय दीयते, विश्रामस्थानं गच्छस्य निरूपयन्ति, भिक्षा येषु प्रदेशेषु लभ्यते न लभ्यते वेति, अन्तराले वसतीनिरूपयन्तो गच्छन्ति यत्र गच्छः सुखेन वसन् याति, स्तेन-श्वापद-व्यालादयश्च १ द्रव्यक्षेत्रकालभावभेदभिन्नयेति । स ।।
॥१०२॥
For Private & Personal use only
brary