________________
श्रीमती बनियुक्तिः ॥९॥
गच्छगता निर्गताश्च विहरमाणकाः
अधुना विहरमाणा द्विधा, गच्छगता गच्छनिर्गताश्च ॥१९२॥ एतदेवाह
पत्तेयबुद्ध-जिणकप्पिया य, पडिमासु चेव विहरन्ता ।
आयरिअ-थेर-वसभा, भिकखु खुड्डा य गच्छंमि ॥१९३॥ प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्च एते गच्छनिर्गता विहरमाणकाः। इदानीं गच्छप्रविष्टाः, आचार्यः प्रसिद्धः, | स्थविरो- यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभः - वैयावृत्त्यक्षमः, भिक्षव एतद्व्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः।
आह-किमर्थ जिनकल्पिकादीनां गच्छनिर्गतानां पूर्वमुपन्यासः कृतः ? उच्यते, एतेषां प्राधान्यख्यापनार्थम् । प्रथममेवेत्थं कस्मान्नोपन्यासः कृतः ? इति चेद् , उच्यते, तेऽपि गच्छपूर्वा एवेति ज्ञापनार्थम् । प्रत्येकबुद्धा न गच्छनिर्गता || इति चेत्, न, तेषामपि जन्मान्तरे गच्छपूर्वकत्वेन गच्छनिर्गतत्वसद्भावात् । यतस्तेषां नवपूर्वाणि पूर्वाधीतानि विद्यन्ते ॥१९३॥ अवधावतः प्रतिपादयति
ओहावंता दुविहा, लिंगविहारे य होंति णायव्वा ।
लिंगेणगारवासं, णियया ओहावण विहारे ॥१९॥ अवधावन्तः- प्रव्रज्यादेपसर्पन्तः द्विविधाः, लिङ्गादवधावन्ति गृहस्थतां प्रतिपद्यन्त इत्यर्थः, उद्यतविहारादवधावन्ति पार्श्वस्थादयो भवन्ति, नित्यादिषु वसन्तीत्यर्थः ॥१९४॥ आहिण्डिकानाह--
॥१३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org