________________
वसतिस्थान निर्णयः।
श्रीमती ओघनियुक्तिः ॥८३॥
वसही समणुण्णेसुं, णिइयादमणुण्ण अण्णहि णिवेए ।
सण्णिगिहिइत्थिरहिए, सहिए वीसु घरकुडीए ॥१६९॥ संविग्नसमनोज्ञेषु प्रथमं वसतिरन्वेष्या, नित्यवास्यादयोऽमनोज्ञा-अन्यसामाचारीप्रतिबद्धा वैतेषु न वसनीयं । किन्त्वन्यत्र वसतिं कृत्वा निवेदयत्यहमत्र स्थितोऽस्मि, प्रतिजागरणीया भवद्भिरिति, क्वेत्याह ? स्त्रीरहिते सज्ञिगृहे चाऽऽस्ते । 'गिहित्ति गृही भद्रकोत्र सूचितः, स च सीरहितस्तदा तत्याचे वसति । अथ भद्रकोऽपि स्त्रीरहितो नास्ति किन्तु सभार्यः, ततः सहित स्त्रीयुक्ते सति 'वीसु"त्ति पृथग् निवसति क्व ? घरकुडीए, तस्यैव बहिः स्थितरन्धनकोष्ठे वा निवसति, अथवा तत्फलहिकान्तर्गतकुडयां वा ॥१६९।। तदभावे शून्यगृहे, किंविशिष्टे इत्याह
अहुणुव्वासिअ सकवाड, णिविले णिच्चले वसइ सुण्णे ।
अणिवेइएयरेसिं, गेलण्णे ण एस अहंति ॥१७०॥ अधनोद्वासिते [१] सकपाटे [२] निविले [३] निश्चले [४] शून्यगृहे निवसति । एतैः चतभिः पदैर्भङ्गाः षोडश । यदा इतरेषां नित्यवास्यादीनामनिवेद्य २वसति तदा कदाचित् ग्लानत्वे प्राप्ते नैषोऽस्माकमिति ते श्राद्धानां पुरः कथयन्ति । यदा तु पूर्वोक्तानां सर्वेषामेवाभावः, किन्तु तत्र क्षेत्रे नित्यवास्यादयः सन्ति ततस्तेष्येव वसितव्यम् ॥१७०।। ३एतावदाह| १ आदी ॥k॥ २ आस्ते ||k॥ २ एतदाह ॥k॥
॥८॥
Jain Education International
For Private&Personal Use Only
www.jainelibrary.org