SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग १५ 000-5000000000000000 ॥ अथ पञ्चदशस्तरङ्गः ॥ पुनर्निदर्शनान्तरैर्गुरुस्वरूपं प्रस्तावागतं श्राद्धादिस्वरूपं चाह सोवाग १ वेस २ गिहवइ ३ रायाहरणं च ४ मज्झवहिसारा । चउ गुरुगिहिधम्मजिआ, सुअकिरियासुद्धिधम्मेहिं ॥१॥ व्याख्या-श्वपाकवेश्यागृहपतिराज्ञामाभरणानीव मध्ये बहिश्च सारा असाराश्चत्वार इति चतुष्प्रकाराः श्रुतेन क्रियया शुद्ध्या धर्मेण च क्रमाद् गुरवो गृहीति सामान्योक्तावपि श्रावकरूपा गृहिणो धर्मा जीवाश्च भवन्तीतिपिण्डार्थः। अथ विस्तरार्थः-तत्र मज्झबहिसारा इत्युक्त्या आभरणानां चतुर्भङ्गी सूचिता । तथाहि-कानिचिदाभरणानि मध्येऽन्तरसाराणि बहिरण्यसाराणि (१) अन्तरसाराणि बहिश्च साराणि (२) अन्तःसाराणि बहिरसाराणि (३) मध्ये बहिश्च साराणीति (४) तत्र श्वपाकानामुपलक्षणादन्येषामप्याभीरादीनां नीचजातीनाम् आभरणानि कथिरादिमयत्वेनान्त:शुषिरत्वात् कर्करादिभृतत्वादिना चान्तरसाराणि तादृक्तेजःशोभाद्यभावाबहिश्चासाराणि । केवलं नूपुरकुण्डलाद्याकारमात्रधारित्वादाभरणानीत्युच्यन्ते । तैश्च परिहितैया नूपुरादीनि परिहितानीत्यभिधानमात्रं सुखं परिधातुः। तथा तैरखण्डैग्रहणकादौ मुक्तैरपि न किमपि विशिष्य द्रव्यादि लभ्यते, भग्नैरपिचन काचिदू द्रव्योसत्तिरिति प्रथम आभरणभेदः। तथा वेश्यानामाभरणान्यन्तःशुषिरत्वात् लाक्षादिभृतत्वाच्चासाराणि बहिश्च ताम्रादिमयत्वेऽपि स्वर्णेन रसितत्वान् ஒCOCCARECOGGCOCE ॥ ३५ ॥ Jain Education in For Private Personel Use Only R ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy