________________
@00000000000000000000
मुग्धानां स्वर्णमयत्वबुद्धिहेतुत्वेन साराणीव प्रतिभासन्ते इति साराणि । यद्वा बहिःसारत्वं प्रकारान्तरेण भाव्यते, तथाहि-यथाभरणानि कुलस्त्रियो वस्त्राद्याच्छादनेन गुप्तानि परिदधति न तथा गणिकाः, ताभिरनाच्छादनेन स्फुटवृत्त्यैवा-16 ङ्गदकुण्डलादीनां परिधानात् । तेन बहिोतमानताप्रतिभासात्तानि बहिःसाराणीति । तैश्चाखण्डैः शुद्धाभरणवत् शो-10 भादि स्यात् , ग्रहणकादौ मुक्तैश्च तत्स्वरूपानभिज्ञा मुग्धा द्रव्याद्यर्पयन्ति, भग्नस्तु नकोऽप्यर्थः सिध्यतीतिद्वितीयः । तथा गृहिणां व्यवहारिणामाभरणानि सर्वस्वर्णमयत्वादन्तर्निघटत्वात्साराणि, बहिश्च तादृक्प्रौढरत्नादिजटितत्वाभावात्तद्योषिदादिभिर्वस्त्राच्छादनादिना गुप्तवृत्त्या परिधानेन वा राजाभरणापेक्षयाऽनुदरा कन्येत्यादिवदल्पसारत्वादसाराणि, तानि | चाखण्डानि भग्नानि वाऽर्थलाभादिकार्यकारीण्येवेति तृतीयः । तथा राज्ञामाभरणानि प्राग्वदन्तःसाराणि बहिरपि च लक्ष-10 कोट्यादिमूल्यरत्नादिजटितत्वान्निर्भयत्वेन पुंभिर्नुपयोषिद्भिश्च स्फुटवृत्त्यैव परिधानादिना वा रविकिरणादिवद् द्योतमान-2 त्वेन साराण्येव । तैश्चाखण्डैः सुखमातिरेकोत्पत्तेर्भग्नैरपि स्वर्णमाणिक्यादिमूल्योत्पत्तेश्चाभीष्टार्थसिद्धिरेवेति चतुर्थः । एवं गुरवोऽन्तर्बहिश्च श्रुतेन सताऽसता च चतुष्प्रकारा ज्ञेयाः, अन्तर्बहिश्चासाराः१ अन्तरऽसारा बहिःसाराः २, अन्तःसारा बहिरसाराः ३, अन्तर्बहिश्च साराः । तत्र केषांचित्पार्श्वस्थादीनामन्तहृदयेन श्रुतं सम्यक् श्रीजिनागमरूपं तदऽश्रद्धानात् लेशतोऽपि तद्भावनाद्यभावाद्वा, अश्रद्धानादि च तल्लिङ्गस्य महाव्रताराधनावश्यकादिसम्यक्रियाषड्जीवरक्षापरिणामपालनप्रयत्नादिसंवेगकषायोपशमतत्त्वभावनादेरदर्शनात् । प्रत्युत “दगपाणं पुप्फफलं, अणेसणिजं गिहत्थकिच्चाई” इत्यादिप्रमादानां स्फुटवृत्त्यैवासेवनोपलम्भात् , पार्श्वस्थादिषु ह्येतेऽनाचाराः स्फुटमेवोपलभ्यन्ते। तथाहि-सनि-19
000000000000000000000
Jain Education
For Private Personal Use Only
HOMw.jainelibrary.org