________________
उपदेशः क्रिया चेति त्रयमपि नास्ति, भावना प्राग्वत् , निदर्शनं च अशुद्धप्ररूपकाः पार्श्वस्थादय एव, परतीथिका लिङ्गिनो वा इत्यष्टमो भङ्गः। all प्रमुखवचनाच्च तज्जातीया अपरेऽपि पक्षिणो दृष्टान्तीकार्या यथासंभवमिति । एषु चाष्टसु भङ्गेषु क्रियाविकलपक्षाः
सर्वेऽप्ययोग्या एव, क्रियासहितपक्षास्तु योग्याः, परं तत्राप्युपदेशविकलाः स्वतारकत्वेऽपि न परांस्तारयितुं समर्थाः। अशुद्धोपदेशकारतु वं परांश्च भवाब्धौ निमजयन्तीति शुद्धोपदेशक्रियायुक्तपक्षः पिकदृष्टान्तसूचितः स्वीकारार्हः। त्रिकयोगपक्षश्च कीरदृष्टान्तेन प्रकटितः सर्वोत्तम एवेति ।
खगाष्टकस्पष्टनिदर्शनैरिति, श्रीमद्गुरूनष्टविधान् विभावयन् । सम्यक् क्रियासारगुणान् परीक्ष्य तान् , भजेत भावारिजयश्रिये बुधः ॥१॥
॥ इति श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे चतुर्दशस्तरङ्गः॥
MOHTOO90000-00-0000004
Jan Education in
For Private Personel Use Only
ainelibrary.org