________________
ॐ00000
9000000000
रादिस्वरूपा, प्रमाद गुरुष रूपमस्तिसया दर्शनीयत्वाञ्च, ण, तथाष्टधा गुरखोडर
क्रिये च, त्रिकयोग एकः, त्रयाभावपक्षश्चैक इति । एतैश्चाष्टभिर्भङ्गैर्यथाष्टधा चापादयः पक्षिणः, तथाष्टधा गुरवोऽपि । एतदेव भाव्यते-यथा चापपक्षिणि रूपमस्ति पञ्चवर्णसुन्दरत्वात् शकुनतया दर्शनीयत्वाच्च, नतूपदेशः वाक्सौन्दर्याभावात् , नापि क्रिया कीटाद्याहारित्वात् । तथा केषुचिद् गुरुषु रूपमस्ति सुविहितवेषत्वात्। न पुनरुपदेशः, शुद्धमार्गाऽप्ररूपकत्वात् ; नापि क्रिया निरवद्याहारादिस्वरूपा, प्रमादादिभिस्तदसमाचरणात् । तदुक्तम्-"दगपाणं पुप्फफलं, अणेसणिजं गिहत्थकिच्चाई। अजया पडिसेवंती, जइवेसविडंबगा नवरं ॥१॥” इत्यादि । एवंविधाश्च बहवोऽपि । संप्रति तु दुःषमानुभावतो विशिष्येति न निदर्शनमपेक्षन्ते, मागधिकागणिकावशीकृताऽवस्थयतिवेषधारिकुलवालकऋष्यादयो वा यथासंभवं दृष्टान्ता अप्यत्र निवेश्याः । कुलवालके हि यतिवेषोऽस्ति, न तु क्रिया, मागधिकागणिकाप्रसक्तेः, विशालाभङ्गादिमहारम्भादिप्रवर्तकत्वाच्च, नाप्युपदेशः सामान्यसाधुत्वेन तदऽनधिकारित्वादुन्मार्गगामिवुझ्या गुरुकुलवासत्यागिनस्तस्य शुद्धमार्गप्ररूपकत्वासंभवाच्चेति प्रथमो भङ्गः। क्रौञ्चपक्षिणि यथा रूपं नास्ति दर्शनीयवर्णाकाराद्यभावात्, क्रियापि न, कीटाद्याहारित्वात्, केवलमुपदेशोऽस्ति मधुरगम्भीरभाषित्वात् । तथाच श्रीसमवायाङ्गे वासुदेववर्णके-सारयनवथणिअमहुरंगभीरकुंचनिग्घोसदुंदुहिसरा इति । तद्वृत्तिलेशः-शरदि भवः शारदः, स चासौ नवं स्तनितमस्मिन्नि?षे स चेति समासः । स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः पक्षिविशेषनिनादस्तद्वत् दुन्दुभिस्वरवच्च स्वरो येषां वासुदेवा (नां) इत्यादि । एवं केषुचिदू गुरुषु न रूपचारवेषाभावात्, नापि क्रिया प्रमादादिपतितत्वात् , उपदेशः पुनरस्ति शुद्धमार्गप्ररूपणात्मकः, प्रमादपतितपरिव्राजकवे
0
000000000
0 000000000
Jain Education in
For Private & Personel Use Only
10Mainelibrary.org