________________
Jain Education
तयो धर्मस्य साधका भवन्ति प्राय इति संटङ्कः । प्रायोग्रहणाच्च तादृक् क्षेत्रादिसामग्रीवशात् क्वचिदप्राप्तधर्मेण केनचिद्व्य| भिचारो नाऽऽशङ्कनीयः । धर्मसाधकत्वोक्त्या च धर्मोपदेशानां योग्यत्वमाक्षिप्तमेवेति ।
योग्यान् स्वरूपादवगम्य सम्यगित्युल्लसदेशनया बुधास्तान् । सदाऽनुगृह्णीध्वमिहोभयेषां स्फुरन्ति भावारिजयश्रियो यत् ॥ १ ॥
इति श्रीतपागच्छे श्रीदेवसुन्दर सूरि-श्रीज्ञानसागरसूरिशिष्य - श्रीसोमसुन्दर सूरिपट्टालङ्कार – श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे श्रोतृविषययोग्याऽयोग्यत्वस्वरूपनिरूपणः प्रथमोऽंशः ।
॥ इति त्रयोदशस्तरङ्गः समाप्तः ॥
For Private & Personal Use Only
jainelibrary.org