________________
100
यक्तं तदादिस्वरूपमित्यर्थः, तदरीक्षाय तीब्रोदरव्यथावादिया काकिणीमध्यपथप्रपन्नामविशेषज्ञो योग्यः
उपदेशर० तरंग १३
सू० वि०
॥३१॥
00000000ोलछ
दातुं वा युक्तं तदादिस्वरूपमित्यर्थः, तं वेत्ति, तथा प्रवर्तते च यः स विशेषज्ञः । प्रदीपपात्रे रभसतस्तैलक्षेपाद् भूगतेन तैलेनोपानदभ्यञ्जकस्य श्वशुरस्यौदार्यादिपरीक्षायै तीव्रोदरव्यथावादिवधूजठरपीडोपशमनिमित्तमामलकप्रमाणमौक्तिकप्रवालाऽऽदिचूर्णरोट्टककारकश्रेष्ठिवत् । तथा च वधू प्रति तच्छ्रेष्ठिवचः--यः काकिणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । कालेन कोटिष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः ॥१॥ एवं धर्माधिकारेऽपि विशेषज्ञो योग्यः, यदागमः-सवत्थ संजमं, संजमाओ अप्पाणमेव रक्खिज्जा। मुच्चइ अइवायाओ, पुणो विसोही नयाविरई ॥१॥ विशेषज्ञविषया दृष्टान्ताश्चाथ श्रीअभयकुमारमन्त्रिश्रीवनस्वामिश्रीमदायरक्षितसूर्यादयोऽवगन्तव्याः । तथाऽप्रमत्तो निद्राविषयकथामद्यादिप्रमादरहितः, स धर्मस्य योग्यः, सूरप्रभनृपादिवत् । प्रमादिनो धर्मश्रद्धानादेरप्यनुत्पत्तेः, शशिनृपादेरिव। तदुक्तम्- "पापाऽऽसक्ते चेतसि, धर्मकथाः स्थानमेव न लभन्ते । नीलीरक्ते वाससि, कुङ्कुमरागो दुराधेयः॥१॥
इति । स्थिरो नाम एकाऽग्रचित्तः, स धर्मस्य योग्यः, अस्थिरचित्तानां क्षीरास्रवादिलब्धिभिरपि बोधयितुमशक्यत्वात् । का एकचित्ताभिधकुमारद्वयमध्यात् श्रीवीरवचनाऽप्रतिबुद्धकुमारवत् । जितान्यत्यासक्तिपरिहारेण वशीकृतानीन्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियो धर्मोपदेशानां योग्यः। अजितेन्द्रियो हि विषयतृष्णया बाध्यते, तद्बाधितश्च न श्रद्धत्ते हितोपदेशाद्यैहिकमपि, दूरे धर्मस्य कथाऽपि, सीतारूपाक्षिप्तरावणनृपवत्, सरस्वतीसाध्वीरूपाक्षिप्तगर्दभिल्लनृपादिवत् , का सुकुमालिकाराज्ञीस्पर्शाऽऽसक्तजितशत्रुनृपवच्च । तत्संबन्धसंग्राहकः श्लोकश्च यथा-बाहुभ्यां शोणितं पीत-मुरुमांसं च
भक्षितम् । भर्ता च निहितः कूपे, साधु साधु पतिव्रते ! ॥१॥ इति । ततो जितेन्द्रिय एव धर्मस्य योग्यः, एतेऽर्थिप्रभृ
000000000000
Jain Education Interational
For Private Personel Use Only
Khainelibrary.org