________________
मुनिसुन्दर सू०वि०
उपदेशर० तरंग १३
॥३०॥
00000000000000000
गुणो॥१॥ अपि च-अशास्त्रजं संस्करणं हि बुद्धे-रलोचनं वस्तुविलोकनं च । आचार्य शिक्षाव्यतिरिक्तमेव, माध्य-12 स्थ्यमाहुः परमं पटुत्वम् ॥१॥ दृष्टान्ताश्चाऽत्र प्रागुक्तसोमवसुविप्रादयः। तथा परीक्षको योग्यः, सारेतरवस्तुपरी:कपरत्वात् , कुरुचन्द्रनृपादिवत् । अपरीक्षकः पुनर्मोदकाऽऽदिग्रहणतो रत्नादित्यागिशिश्वादिवत् सारत्यागेनासारग्राही स्यात् । तदुक्तम्-परीक्षका यत्र न सन्ति देशे, नाऽथैति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं, त्रिभिवराटैः प्रवदन्ति गोपाः॥१॥ ततः सम्यग्धर्मवस्तुनोऽपरिच्छेदकत्वादयोग्यः सः । कुरुचन्द्रनृपकथा त्वियम्-काञ्चनपुरे कुरुचन्द्रनृपतिः कुरुते राज्यं, मन्त्री रोहकः, स जैनो राज्ञोऽग्रे जिनधर्म श्लाघते । राजाऽऽह-कथं ज्ञायते सम्यगेष धर्म इति । मन्त्र्युचे-परीक्षया सारेतरवस्तुनिर्धारः। यदुक्तम्-मणिलुंठतु पादाग्रे, काचः शिरसि धार्यताम्। परीक्षककरप्राप्तः, काचः काचो मणिर्मणिः ॥१॥ अपि च आगमेन च युक्त्या च, योऽर्थः समभिगम्यते। परीक्ष्य हेमवद् ग्राह्यः, पक्षपातग्रहण किम् ? ॥२॥ न च, पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः॥१॥ इस्यादिकुग्रहविलसितं मनस्यवधार्य, यदुक्तं-वस्त्वेव तन्नहि भवेत् क्रियतेऽन्यथा यत्, कश्छादयेद्दिनमणिं करसम्पुटेन । सारेतरान्तरविचारवतः प्रतीयं-स्तेनाऽहमेव बत दुर्जनचक्रवर्ती ॥ १ ॥ इत्यादि. ततो नृपः सर्वदर्शनिनां हृद्गतवैराग्यपरीक्षार्थ 'सकुंडलं वा वयणं नवत्ति' इति समस्यापदमापिपत्। ततः प्रथम बौद्धः प्राह-मालाविहारंमि गएण दिठा, उवासिआ कंचणभूसिअंगी । वक्खित्तचित्तेण मए न नायं, सकुंडलं वा वयणं नवत्ति ॥ १ ॥ इत्यादिप्रकारैः सर्वैरप्यपरदर्शनिभिः शृङ्गाररसेनैव पूरिता सा समस्या विसंवदति धर्मम् । मन्त्र्याकारितो जैनमुनिस्तु-खंतस्स दंतस्स
100000000000000000000000
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org