________________
0000000000000
00000000
स्कृतस्तज्जनकमन्त्रिणः पार्चे पदत्रयाऽर्थ पृच्छति । मन्त्र्याऽऽह-अकृतमकारितं शुद्धं मधुकरवृत्त्या लब्धं रागद्वेषविमुक्तं मन्त्रादिप्रयोगवर्जितमाहारं यो भुङ्क्ते स मिष्टभोजी। अशुद्धं मोदकमपि कटुकमेव, यदुक्तं-'अजयं भुंजमाणो अ'. यश्च सर्वजीवहितः सुवर्णाद्यर्थनिस्पृहश्च स लोकप्रियः, यः पुनः स्वाध्यायध्यानपरोऽवसरे शेते स सुखशायीति । तन्निशम्य] विप्रः स्माऽऽह-कोऽपि किमीशोऽप्यस्ति ? मन्त्र्यूचे-जैनमुनयः सन्त्येव । ततः स तत्र गतो विहरणादौ मिष्टभोजनं, प्रतिलेखनादौ रात्रौ च तृतीययामे वैश्रमणोपपाताऽध्ययनगुणनाऽऽकृष्टधनदेन वरदानेऽपि निरीहत्वाल्लोकप्रियत्वं, ध्यानपरत्वेन सुखशय्यां च परीक्ष्य तद्धर्म प्रपद्य स्वर्ग क्रमान्मोक्षं च प्राप्तवानिति । तथा समर्थों धर्मस्य योग्यः, समर्थलक्षणं च-होइ समत्थो धम्म, कुणमाणो जो न बीहइ परेसिं । माइपिइसामिगुरुभाइआण धम्माउ भिन्नाणं ॥ १॥ तह जो पुबच्चिअदेवयाइ तत्कालपूअणाविरहे । बीहेइ नेव तक्कयविग्घुवसग्गाइएहिंपि ॥ २ ॥ हुँतीह केइ पुरिसा, सरभसमु| किट्ठविअ अधम्मभरं । पच्छा विग्योवहया, हयब उज्झंति दुईता ॥ ३॥ अपि च-सो धम्मे पडिबुद्धो, विग्धोवहओ वि जो समुज्जमइ । तयभावे सबोविह, धम्महिगारी भवे इहरा ॥४॥ गोत्रदेवीकृतविविधोपसर्गाऽत्याजितस्वधर्मद्रढिमश्रीकुमारपालनृपाऽऽरामनन्दनशुकपरिव्राजकाऽऽचार्याऽक्षोभितसुदर्शनश्रेष्ठिमातापित्रादिस्वजनाद्यत्याजितधर्माऽमरदत्ता- | दयश्चाऽत्र दृष्टान्ता भवन्तीति । तथा मध्यस्थो धर्मग्रहणेऽधिकारी, तल्लक्षणं च-न हु कुग्गहगहिअमई, सुविआरी जो सुदक्खयाइगुणो । न कहिं चि रत्तदुट्ठो, मज्झत्थो सो सुए भणिओ ॥१॥ स एव हि यथास्थितं धर्माऽधर्माऽऽदिवस्तुतत्त्वं परिच्छिनत्ति । यदुक्तं-विमलंमि दप्पणे जह, पडिबिंबई पासवत्तिवत्थुगणो । मज्झत्थंमि तहानणु, संकमई समग्गधम्म
0
@
000000000
@
@@
For Private & Personal Use Only
Jain Education in
BHUninelibrary.org