________________
मुनिसुन्दर सू० वि०
॥ २९ ॥
Jain Education
सुधियां प्रयासः ॥ ९ ॥ ततोऽथ धर्मस्य योग्यः, सोमवसुविप्रवत्। कौशाम्ब्यां सोमवसुर्विप्रोऽन्यदा कथक पार्श्वे धर्मं श्रुत्वाऽप्राक्षीत् भोः कस्य पार्श्वे सम्यग् धर्मोऽस्ति ? कथकः प्रोचे - मिठ्ठे भुंजेअबं, सुहं सुएअवं, लोगप्पिओ अप्पा कायबो, एतत्पदत्रयस्यार्थे यः समवगच्छति पालयति च तत्पार्श्वे सम्यग्धर्मः । ततः स विविधान् दर्शनिनस्तदर्थं पृच्छन् क्वचिद् ग्रामे तापसमठे प्रापत् । तापसपार्श्वेऽर्थं पृच्छति, सोऽप्याह - अस्मद्गुरुणाऽप्येवमेवाऽऽदिष्टं, परमर्थो नाऽऽख्यातः । ततो मया स्वधियेत्थं क्रियते मन्त्रौषधादिविधिभिर्लोकप्रिय आत्मा कृतस्तेनाऽहं मिष्टं भोजनं लभे, इह मठे निश्चिन्तः सुखेन स्वपिमीति । तच्छ्रुत्वा दध्यौ द्विजः - नाऽयमर्थः सङ्गच्छते, यतः – मंतोस हिपमुहेहिं, जायइ जीवाण घायणं नूणं । ता लोगपिओ अप्पा, कह परमत्थेण इअ होइ ॥ १ ॥ पाएण मिट्टभत्तं जणेइ जीवाण गांढरसगिद्धी । तत्तो भवपरिवुड्डी ता परमत्थेण कडुअमिणं ॥ २॥ सुखशय्याऽपि धर्मार्थिनां निषिद्धा, यदुक्तम् - सुखशय्यासनं स्नानं; ताम्बूलं वस्त्र मण्डनम् । | दन्तकाष्ठं सुगन्धं च, ब्रह्मचर्यस्य दूषणम् ॥ १ ॥ ततस्तं पृष्ट्वा तत्सतीर्थ्यपार्श्वे गतोऽर्थं पृच्छति स प्राह-एकान्तरोपवासकरणेन मिष्टं भुझे, अध्ययनध्यानपरः सुखं स्वपिमि, निरीहत्वेन लोकप्रियोऽस्मीति । एतदाकर्ण्य पुनरचिन्तयद्विप्रः- एष वरीयान् परमेषोऽपि यत्र भुङ्क्ते तत्रैतदर्थं भोजने निष्पाद्यमाने महती जीवविराधनेति कथं लोकप्रियत्वं ? ततः पाटलीपुत्रे प्राप्तः सुलोचनमन्त्रिपुत्रीं नरवाहनारूढां महोत्सवादागच्छन्तीं दृष्ट्वा कञ्चिदप्राक्षीत् - केयमित्यादि । सोऽभ्यधात्ॐ इयं मन्त्रिपुत्री नृपसभायां पूरितसमस्या लब्धनृपप्रसादाऽभ्येति । समस्या चेयम्- "तेन शुद्धेन शुध्यति" पूरिता चैवं - " यत्सर्वव्यापकं चित्तं, मलिनं दोषरेणुभिः । सद्विवेकाम्बुसम्पर्कात्तेन शुद्धेन शुध्यति ॥ १ ॥ " तद्वचन कौशलं श्रुत्वा चम
For Private & Personal Use Only
उपदेशर० तरंग १३
॥ २९ ॥
w.jainelibrary.org