________________
मुनिसुन्दर सू० वि०
उपदेशर० तरंत १२
॥२८॥
000000000000000000000
अपि च-गुणगुरवो गुरवस्ततस्ते कथमपि दुष्टशैक्षशिक्षापनेन कोपमुपागमंस्तथापि तेषां भगवदाज्ञावर्तित्वादल्पपापभाजां मिथ्यादुष्कृतादिमात्रेणापि विशुद्धिरुपजायते। शिष्यस्तु भगवदाज्ञाविलोपतो गुर्वाशातनायाश्चोपचिताऽशुभगुरुकर्मा दीर्घतरसंसारभाजी। किश्चैवं स वर्तमानो मतिमानपि श्रुतरत्नबहिर्भवति, अन्यत्राऽपि तस्य दुर्लभश्रुतत्वात्। को हि नाम सचे |तनो दीर्घतरजीविताऽभिलाषी सर्पमुखे स्वहस्तेन पयोबिन्दून् प्रतिक्षिपतीति । स एकान्तेनाऽयोग्यः। प्रतिपक्षभावनायामपीदमेव कथानक परिभावनीयम् केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरितं कर्परैर्यथाशक्ति घृतं गृहीत-1 वन्ती, स्तोकमेव विननाश । निन्दति चाऽऽत्मानमाभीरो यथा-हा मया न घृतघटस्ते सम्यक्समर्पितः-आभीर्यपि वदति। समर्पितस्त्वया सम्यग् , न मया सम्यग्गृहीतस्तत एवं तयोर्न कोपावेशदुःखं, नाऽपि घृतहानिर्नाऽपि सकाल एवाऽन्यसार्थिकैः सह ग्राममभिसर्पतामपान्तराले तस्कराऽवस्कन्दः, ततस्तौ सुखभाजनं जातो, एवमिहाऽपि कथञ्चिदनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथाऽवस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमुक्त व्याख्यानं चिन्तयन्तं प्रति एवं वक्तव्यम् -वत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि । तत एवमुक्ते सति यो विनेयः कुलीनो विनीताऽऽत्मा, स एवं प्रतिवदति-यथा-भगवन्तः किमन्यथाप्ररूपयन्ति ? केवलमहं मतिदीबल्यादन्यथाऽवगतवानिति । स एकान्तेन योग्यः ।
॥ इति द्वादशस्तरङ्गः समाप्तः॥
இவரது குருதி
॥२८॥
Jain Education
For Private Personel Use Only
jainelibrary.org