________________
Jain Education Int
खण्डशो भग्नः । ततो घृतहानिदूनमनाः पतिरुलपितुं खरपरुषवाक्यानि प्रावर्तयत् । हा पापीयसि दुःशीले ! काम| विडम्बितमानसा तरुणिमाऽभिरमणीयं पुरुषान्तरमवलोकसे ? न सम्यग्वारकमभिगृह्णासि ? ततः सा खरपरूपवाक्यश्रव|णतः समुद्भूतकोपावेशव शोच्छलितकम्पितपीनपयोधरा स्फुरदधरविम्बोष्ठी दूरोत्पाटितरेखा धनुरवष्टम्भतो नाराचश्रेणिमिव कृष्णकटाक्षसन्ततिमविरतं प्रतिक्षिपन्ती प्रत्युवाच - हा ! ग्रामेयकाधम ! घृतघटमप्यवगणय्य विदग्धमत्तकामि| नीनां मुखारविन्दान्यवलोकसे ? नचैतावताऽवतिष्ठसे. खरपरुषवाक्यैर्मामप्यधिक्षिपसि ? ततः स एवं प्रत्युक्तोऽतिज्वलितकोपाऽनलो यत् किमप्यसम्बद्धं भाषितुं लग्नः साऽप्येवं, ततः समभूत्तयोः केशाकेशि युद्धम् । ततो विसंस्थुलपादादिॐ न्यासतः सकलमपि प्रायो गन्त्रीघृतं भूमौ निपतितम् । ततः किञ्चिच्छोषमुपगतम्, अवशेषं चाऽवलीढं श्वभिः । मन्त्रीघृतमपि शेषीभूतमपहृतं पश्यतोहरैः । सार्थिका अपि स्वं स्वं घृतं विक्रीय स्व ग्रामगमनं प्रपन्नाः । ततः प्रभूतदिवस भागाऽतिक्रमेणाऽपसृते युद्धे स्वास्थ्ये च लब्धे यत् किञ्चित् प्रथमतो विक्रीतं घृतं तद्रव्यमादाय तयोः स्वग्रामं गच्छतोः अत्रान्तरालेऽस्तङ्गते सहस्रभानौ सर्वतः प्रसरमभिगृह्णति तमोविताने परास्कन्दिनः समागत्य वासांसि द्रव्यं बलिवर्दी चाऽपहृतवन्तः । ॐ तत एवं तौ महतो दुःखस्य भाजनम जायेताम् । एष दृष्टान्तोऽयमर्थोपनयः यो विनेयो ऽन्यथा प्ररूपयन्नधीयानो वा खरपरुपवा| क्यैराचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निहुषे ? इत्यादि । स न केवलमा-त्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतर कोपाऽनलज्वालनात्। भवन्ति कुविनेया मृदोरपि गुरोः ॐ खरपरुषप्रत्युच्चारणादिना प्रकोपकाः । उक्तं चोत्तराध्ययनेषु - " अणासवा थूलवया कुसीला, मिउं पि चंडं पकरंति सीसा" इति ।
For Private & Personal Use Only
mainelibrary.org