________________
उपदेशर० तंरग १२
मुनिसुन्दरका परिपाट्या दोग्धुमारब्धास्तत्र यस्य प्रथमदिवसे सा गौरागता, स चिन्तितवान्-यद्यहमस्याश्चारिं न दास्यामि, ततः सु० वि० क्षुधा धातुक्षयात्प्राणानपहास्थति । ततो मे लोकेषु “एते गोहत्याकारका" इत्यवर्णवादो भविष्यति । पुनरपिचाऽस्मभ्यं
न कोऽपि गवादिकं दास्यति । अपि च यदि मदीयचारिचरणेन पुष्टा सती शेरैरपि ब्राह्मणै|क्ष्यते ततो मे महाननुग्रहो ॥२६॥
ला भविष्यति । अहमपि च परिपाच्या पुनरप्येनां धोक्ष्यामि । ततोऽवश्यमस्यै दातव्या चारिरिति ददौ चारिम् । एवं शेषा | अपि ददुः, ततः सर्वेऽपि चिरकालं दुग्धाऽभ्यवहारभाजिनो जाताः । लोके च समुच्छलितः साधुवादः, लभन्ते च प्रभूतमन्यदपि गवादिकम् । एवं येऽपि विनेयाश्चिन्तयन्ति-यदि वयमाचार्यस्य न किमपि विनयादिकं विधातारस्तत एषोऽवसीदन्नवश्यमपगतासुभविष्यति, लोके च कुशिष्या इमे इत्यवर्णवादः। ततो गच्छान्तरेऽपि न वयमवकाशंलप्स्यामहे । अपि चाऽस्माकमेष प्रव्रज्याशिक्षावताऽऽरोपणादिकरणतो महोपकारी, संप्रति च जगति दुर्लभं श्रुतरत्नमुपयच्छन् वर्तते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः कर्तव्यम् । अन्यच्च, यद्यस्मदीयविनयादिना साहायकबलेन प्रातीच्छिकानामप्याचार्यत उपकारः किमस्माभि नलब्धं ? द्विगुणतरपुण्यलाभस्याऽस्माकं भावात् । प्रातीच्छिका अपि ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामाऽन्यो महान्तमेवं व्याख्याप्रयास मन्निमित्तं विदधाति । ततः किमेतेषां वयं प्रत्युपकर्तुशक्ताः तथापि यत्कुर्मः सोऽस्माकं महान्लाभ इति परनिरपेक्षं विनयादिकमाधत्ते । तेषां नाव
सीदत्याचार्योऽव्यवच्छिन्ना च सूत्राऽर्थप्रवृत्तिः, समुच्छलति च सर्वत्र साधुवादः, गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं, लापरलोके च सुगत्यादिलाभः। भेर्युदाहरणं यथा-बारवइए वासुदेवस्स तिन्नि भेरीओ तंजहा-संगामिया, अब्भुइया, कोमु
0000000000000
தOOGGGGGGGES
Jain Education
For Private & Personel Use Only
jainelibrary.org