________________
Ko
उपदेशर तरंग १२
मुनिसुन्दर येन क्षीरमेव केवलमापिबति, नतूदकमिति ! उच्यते-जिह्वाया अम्लत्वेन कूर्चकीभूय पृथग्भवनात् । उक्तं च-अंबत्तणेण
जीहाएँ, कूचिया होय खीरमुदगंपि । हंसो मुत्तण जलं, आवियइ पयं तह सुसीसो ॥१॥ मोत्तूण दढं दोसे, गुरुणोड॥२५॥
णुवउत्तभासियाईए । गिण्हइ गुणे उजोसो, जोग्गो समयत्थसारस्स ॥२॥ इदानीं महिषदृष्टान्तभावना-यथा महिषो निपानस्थानमवाप्तः सन् उदकमध्ये तदुदकं मुहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुषीकरोति, ततो न स्वयं पातुं शक्नोति, नापि यूथम् । तद्वच्छिष्योऽपि यो व्याख्यानप्रबन्धाऽवसरेऽकाण्ड एव क्षुद्रपृच्छाभिः कलहविकथादिभिर्वा आत्मनः परेषां चाऽनुयोगश्रवणविघातमाधत्ते, स महिषसमानः। स चैकान्तेनाऽयोग्यः । उक्तं च-सयमवि न पियइ महिसो, न य जूहं पिवइ लोलियं उदयं । विग्गहविकहाहिं तह, अथक्कपुच्छाहि य कुसीसो ॥ १॥ मेषोदाहरणभावना-यथा मेषो वदनस्य तनुत्वात् स्वयं च निभृताऽऽत्मा गोष्पदमात्रस्थितमपि जलमकलुषीकुर्वन् पिबति तथा यः शिष्योऽपि पदमात्रमपि विनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः । स चैकान्तेन योग्यः । मशकदृष्टान्तभावना-यः शिष्यो मशक इव जात्यादिकमुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मशकसमानः। स
चाऽयोग्यः। जलौकादृष्टान्तभावना-यथा जलौका शरीरमदुन्वती रुधिरमाकर्षति तथा शिष्योऽपि योऽदुन्वन् श्रुतका ज्ञानमापिबति, स जलौकासमानः । उक्तं च-जलूगाव मदुमितो, पियइ सुसीसोवि सुयनाणं । बिडालीदृष्टान्तभावनायथा बिडाली भाजनसंस्थं क्षीरं भूमौ निपात्य पिबति, तथा दुष्टस्वभावत्वात् शिष्योऽपि यो विनयकरणादिभीततया न साक्षाद् गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित् , स बिडालीसमानः, स चाऽयोग्यः । तथा
00000000000000000000000
GEOGGGGE
भूमौ निपात्य पिबति, ममितो, पियइ सुसीसोवा शिष्योऽपि योऽदुन्वन्
॥२५॥
Jain Education
l
For Private Personel Use Only
S
ainelibrary.org