________________
1000000000000000000064
चालनीदृष्टान्तभावना-चालनी लोकप्रसिद्धा, यया कणिक्कादि चाल्यते । तत्र यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेव गच्छति, न पुनः कियन्तमपि कालमवतिष्ठते, तथा यस्य सूत्राऽर्थः प्रदीयमानो यदैव कर्णे प्रविशति तदैव विस्मृतिपथमुपैति, स चालनीसमानः । तथा च मुद्गशैलच्छिद्रकुटचालनीसमानशिष्यभेदप्रदर्शनार्थमुक्तं भाष्यकृता-सेलेयछिद्दचालणिमिहो कहा सोउ उठियाणं तु । छिद्दाह, तत्थ विठोसमरिसुं सरामि नेयाणि ॥२॥ एगेण विसइ बीएण नीइ कण्णेण, चालणी आह-धन्नो स्थ आह सेलो, जं पविसइ नीइवा तुज्झ॥२॥ तत एषोऽपि चालनीसमानो न योग्यः।चालनीप्रतिपक्षी-15 भूतं च वंशदलनिर्मापिततापसभाजनं, ततो हि बिन्दुमात्रमपि जलं न स्रवति । उक्तं च-"तावसखउरकढिणयं, चालणिपडिवक्खु न सवइ दवंपि" । ततस्तत्समानो योग्यः। सम्प्रति परिपूणकदृष्टान्तो भाव्यते-परिपूणको नामं घृतक्षीरगालनं, सुगृहाऽभिधचटकाकुलायो वा, तेन ह्याऽऽभीर्यो घृतं गालयन्ति । ततो यथा स परिपूणकः कचवरं धारयति, घृतमुज्झति, तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति, गुणांस्तु मुश्चति, स परिपूणकसमानः, स चाऽयोग्यः। आह चूर्णिकृत-वक्खाणाइसु दोसे, हिययंमि ठवेइ मुयइ गुणजालं । सो सीसो उ अजोग्गो, भणिओ परिपूणगसमाणो ॥१॥ आह-सर्वज्ञमतेऽपि दोषाः संभवन्तीत्यश्रद्धेयमेतत्. सत्यम्, उक्तमत्र भाष्यकृता-सव्वन्नुप्पामण्णा, दोसा हुन संति जिणमए केवि । जमणुवउत्तकहणं, पमत्तमासज्ज व हवंति ॥ १ ॥ सम्पति हसदृष्टान्तभावनायथा हंसः क्षीरमदकमिश्रितमपि उदकमपहाय क्षीरमापिबति, तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवान् दोषानवधूय गुणानेव केवलानादत्ते, स हंससमानः । स चैकान्तेन योग्यः । ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति ।
*கரு GOGGGGGGE
१॥ आलाणाइस दोसवाचनादौ दोषागात गालयन्ति कष्टान्तो भाव-"ताव
उ.
५
Jain Education in
For Private & Personel Use Only
VEDnjainelibrary.org